SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ ३६८ ] वृहत्ति -लघुन्याससंवलिते [पाद. ३ सू० ३२-३६ ॥ ___ न्या० स० वान्त० सकाराभावश्चेति 'नाम सिव्यञ्जने' १-१-२१ इति पदत्वात् सकारः प्राप्तः । विन्मतोर्णीष्ठेयसौ लुप् ॥ ७. ४. ३२ ॥ विन्मतु इत्येतयोः प्रत्यययोणि इष्ठ इयसु इत्येतेषु प्रत्ययेषु परेषु लुब् भवति । स्रग्विणमाचष्टे स्रनयति, अयमेषां स्रग्विणामतिशयेन स्रग्बी स्रजिष्ठः । अयमनयोः स्रग्विणोरतिशयेन सग्को स्रजोयान्, त्वग्वन्तमाचष्टे त्वचयति, अयमेषामतिशयेन त्वग्वान् वरिष्ठः, अयमनयोरतिशयेन त्वग्वान् त्वचोयान्, कुमुवन्तमाचष्ठे कुमुदयति, कुमुदिष्ठः, कुमुदोयान् । अत एव वचनादगुणाङ्गादपीष्ठेयसू । निर्दिश्यमानत्वात् प्रत्ययमात्रस्य लुप् ॥३२॥ न्या० स० विन्म०-सजिष्ठ इति अत्रान्तवर्त्तिविभक्त्यपेक्षया यथा विसन्तस्य इष्ठप्रत्यये प्राप्तस्य पदत्वस्य सित्येवेति नियमेन निषेधस्तथा विन्लोपेऽपि, न च 'प्रत्ययः प्रकृत्यादेः' ७-४-११५ इति विनन्तादिष्ठप्रत्ययो विहितोऽतस्तस्यैव नियमेन पदत्वाभावो, न तु विन्लोपे पाश्चात्यस्येति यतः 'प्रत्ययः प्रकृत्यादेः' ७-४-११५ इति परिभाषायाः 'षड्वर्जेक। ७-३-४० इत्यत्र षड्वर्जनेनानित्यत्वज्ञापनात् , एवं त्वचिष्ठ इत्यादिष्वपि दृश्यम् । अल्पयूनोः कन्वा ॥७. ४. ३३ ।। अल्प युवन इत्येतयोणि इष्ठ ईयसु इत्येतेषु परेषु कन् इत्ययमादेशो वा भवति । कनयति, कनिष्ठः, कनीयान्, पक्षे-अल्पयति, अल्पिष्ठः, अल्पीयान, यवयति, यविष्ठः यवीयान् ।३३।। ___न्या० स० अल्प०-अत्रापि अगुणाकणादपि इष्ठेयसू वचनसामर्थ्याद् भवतः, अन्यथा 'स्थूलदूर' ७-४-४२ इत्यनेनान्तस्थादेवयवस्य लुबपि न स्यात् तयोरभावात् एवमुत्तरेष्वपि दृश्यम् । प्रशस्यस्य श्रः ॥ ७. ४. ३४ ॥ प्रशस्यशब्दस्य णीष्ठेयसुषु परत: श्र इत्ययमादेशो भवति । यति श्रेष्ठः, श्रेयान् ।३४। वृद्धस्य च ज्यः ॥ ७. ४. ३५ ॥ वदशब्दस्य प्रशस्यशब्दस्य च णोष्ठेयसुषु परतो ज्य इत्यादशो भवति । ज्ययति, ज्येष्ठः ।३५॥ ज्यायान् ॥ ७. ४. ३६ ॥ ज्यायानिति पूर्वसूत्रेण विहिताज्ज्यादेशात्परस्येयसोरीकारस्य आकारादेशो निपात्यते । अयमनयोरतिशयेन प्रशस्यो वृद्धो वा ज्यायान, ज्यायसी ॥३६॥
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy