________________
३४० ]
बृहद्वृत्ति - लघुन्यास संबलिते
[ पाद. ३ सू. १२४-१२७ ] विद्यन्ते त्रयो यस्य सोऽत्रिः । शोभनास्त्रयो यस्य सुत्रिः निर्गतास्त्रिशदस्य निस्त्रिशत् । डित्वमन्त्यस्वरादिलोपार्थम् । १२३॥
न्या० स० नञ्० - नञ्ग्रहणमिति अव्ययद्वारेणापि सिद्धे ।
संख्याव्ययादङ्गुलेः ॥ ७. ३. १२४ ॥
संख्याया अव्ययाच्च परो योऽङ्गुलिशब्दस्तदन्तात्तत्पुरुषात् डः समासान्तो भवति । द्वयोरङ्गुल्योः समाहारः व्यङ्गुलम्, त्र्यङ्गुलम् । द्वे अङ्गुली प्रमाणमस्य मात्रट् तस्य लुप्, ततः समासान्तः । द्व्यङ्गुलम्; त्र्यङ्गुलम्, व्यङ्गुलप्रियः, त्र्यङ्गुलप्रियः, अव्यय, निरङ्गुलम् अत्यङ्गुलम्, तत्पुरुषादित्येव ? उपाङ्गुलि, पञ्चाङ्गुलिर्हस्तः । अनङ्गुलिः पुरुषः । कथमात्माङ्गुलं प्रमाणाङ्गुलम् उत्सेधाङ्गुलमिति ? अङ्गुलशब्दः प्रमाणवाची प्रकृत्यन्तरम् । 'स्वेनाङ्गुलप्रमाणेनाङ्गुलानां शतं हस्तोऽङ्गुल
पुमान्' ।
यथा
विंशत्येति । १२४ |
बहुव्रीहेः काष्ठे टः ॥ ७. ३. १२५ ॥
अङ्गुल्यन्ताद्बहुव्रीहेः काष्ठे वर्तमानात् टः समासान्तो भवति । द्वे अङ्गुली यस्य व्यङ्गुलम् । त्र्यङ्गुलं, चतुरङ्गुलम्, पञ्चाङ्गुलम् । अङ्गुलिसदृशावयवं धान्यकण्टकादीनां विक्षेपणकाष्ठमेवमुच्यते । बहुव्रीहेरिति किम् ? उपाङ्गुलि, अत्यङ्गुला यष्टिः । काष्ठ इति किम् ? पञ्चाङ्गुलिर्हस्तः । अङ्गुलेरिति निर्देशादङ्गुलीशब्दान्तान्न भवति । द्वावङ्गुलीसदृशाववयवो यस्य तत् द्व्यङ्गुलीकम् दारु । ' न कचि ' (२-४ -१०४) इति हस्वाभाव:, टकारो ङ्घर्थः । दीर्घाङगुली । तीक्ष्णाङ्गुली यष्टिः । १२५ ।
सक्थ्यक्ष्णः स्वाङ्गे ॥ ७. ३. १२६ ॥
स्वाङ्गवाची यः सक्थिशब्दोऽक्षिशब्दश्च तदन्ताद्बहुव्रीहेष्टः समासान्तो भवति । दीर्घं सक्थि यस्य दीर्घसक्थः, दीर्घसक्थी, गौरसक्थः, गौरसक्थी, विशालाक्षः, विशालाक्षी, कमलाक्षः, कमलाक्षी, स्वक्षः, स्वक्षी । सक्थ्यक्ष्ण इति किम् ? सुबाहुः, दीर्घजानुः । स्वाङ्ग इति किम् ? दीर्घसक्थि शकटम्, स्थूलास्थिरिक्षुः । बहुव्रीहेरित्येव ? परमसक्थि, सदक्षि । १२६ ।
न्या० स० सक्थ्य० —— स्थूलाक्षिरिक्षुरिति समासान्तविधेरनित्यत्वात् 'अक्ष्णोऽप्राण्यङ्गे ७ - ३ - ८५ इत्यनेनापि न भवति ।
,
द्वित्रेमूनों वा ॥ ७. ३. १२७ ॥
द्वि, त्रि इत्येताभ्यां परो यो मूर्धन् शब्दस्तदन्ताद्बहुव्रीहेष्टः समासान्तो