________________
३३८ ]
बृहद्वृत्ति-लघुन्यास संवलिते [ पाद. ३ सू० ११६-११९ ]
तीक्ष्णायसम् । अयो जातिविशेषा एते । लोहितायसमिति नामेत्येके । जातिनाम्नोरिति किम् ? परमसरः, सदन, सदश्मा । कथं बिन्दुसरः बकसर इति । नैषा संज्ञा रूढया ह्यत्र संज्ञाविज्ञानं शूर्पनखीवत् । ११५।
"
न्या० स० सरो० -- यथासंभवमिति क्वापि जातौ क्वापि नाम्नि चेत्यर्थः । महानसमिति अन इवानः महच्च तदनश्च ।
गोन समिति गवामन इव गोनसमद्दिजातिः, बाहुलकान्नपुंसकः । अह्नः ।। ७. ३. ११६ ।।
अहन्शब्दान्तात्तत्पुरुषादट् समासान्तो भवति । एकाहम्, पुण्याहम्, सुदिनाहम् | ११६ |
परमाहः, उत्तमाहः,
संख्यातादह्नश्च वा । ७. ३. ११७ ॥
संख्यातशब्दात्परो योऽहन्शब्दस्तदन्तात्तत्पुरुषादट् समासान्तो भवति तस्य चाहनुशब्दस्याह्नादेशो वा भवति । संख्यातमहः संख्याताह्नः संख्याताहः । अह्नादेशार्थं वचनम्, अट् तु पूर्वेणैव सिद्धः । चकार उत्तरत्रांना देशस्याट्संनियोगशिष्टत्वार्थः । अन्यथा ह्यटोsपवादोऽह्लादेशो विज्ञायेत, तथा च स्त्रियां ङीर्न स्यात् ।११७।
6
न्या० स० संख्या ० - अहादेश इति अतोऽह्नस्य २-३-७३ इति संख्यासायवे : ' १- ४ - ५० इति च ज्ञापकान्न प्रत्ययशङ्का ।
"
सर्वाशसंख्याव्ययात् ॥ ७. ३. ११८ ।।
सर्वशब्दादश एकदेशस्तद्वाचिभ्यः संख्यावाचिभ्योऽव्ययेभ्यश्च परो योऽहन्शब्दस्तदन्तात् तत्पुरुषादट् समासान्तो भवति तस्य चाहनुशब्दस्य नित्यमह्नादेशो भवति । सर्वमहः सर्वाः, अंश, पूर्वाह्नः, अपराह्नः, मध्याहूनः, सायाहूनः । संख्या, द्वयोरह्नोर्भवः व्यह्नः पटः, व्हूनीः अष्टका, एवं त्र्यह्नः त्र्यहूनी,
अनी प्रिये यस्य स व्यह्नप्रियः व्यह्नप्रियः, द्वे अहनी जातस्य व्यह्नजातः, त्र्यह्नजातः, अव्यय, अत्यनः, अत्यहनी कथा, निरहून: निरहूनी वेला, व्यह्नः, व्यह्नी । ११८ |
संख्यात पुण्यवर्षादीर्घाच्च शरत् ।। ७. ३. ११९ ॥
संख्यात, एक, पुण्य, वर्षा, दीर्घ इत्येतेभ्यश्चकारात्सर्वांशादिभ्यश्च परो यो रात्रिशब्दस्तदन्तात्तत्पुरुषादत् समासान्तो भवति । संख्याता रात्रिः संख्यातरात्रः, एकरात्रः पुण्यरात्रः, वर्षाणां रात्रिः वर्षारात्रः, दीर्घरात्रः,