SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ पाद. २. सू. १३७-१४१] श्रीसिद्धहेमचन्द्रशब्दानुशासने सप्तमोध्यायः [२९३ समयाद्यापयानाम् ॥ ७. २. १३७॥ समयशब्दाद्यापनायां कालहरणे गम्यमाने कगा योगे डाच् प्रत्ययो भवति । समयाकरोति तन्तुवायः । अद्य श्वस्ते पटं दास्यामीति कालक्षेप करोति इत्यर्थः । यापनायामिति किम् ? समयं करोति ।१३७। सपत्रनिष्पत्रादतिव्यथने ।। ७. २. १३८ ।। सपत्रनिष्पत्र इत्येताभ्यां कृगा योगेऽतिव्यथनेऽतिपीडने गम्यमाने डाच् प्रत्ययो भवति । ___ सपनाकरोति मृगम्, पत्रं शरः सह पत्रमनेनेति सपत्रः, तं करोति शरमस्य शरीरे प्रवेशयतीत्यर्थः । निष्पत्राकरोति, निर्गतं पत्रमस्मादिति निष्पत्रः तं करोति शरमस्वापरपावन निष्क्रमयतीत्यर्थः, सपत्राकरोति वृक्षं वायुः, निष्पत्राकरोति वृक्षं वायुः, अत्र पत्त्रशातनमेवातिव्यथनम् । सपत्त्रकरोतीत्यपि मङ्गलाभिप्रायेण वृक्षस्य निष्पत्त्राकरणमेवोच्यते । यथा दीपो नन्दतीति विध्वंसः। अतिव्यथन इति किम् ? सपत्रं करोति वृक्ष जलसेकः, 'निष्पत्रं करोति वृक्षतलं भूमिशोधकः ।१३८। निष्कुलानिष्कोषणे ॥ ७. २. १३९ ॥ निष्कुलशब्दात्कृगा योगे निष्कोषणेऽर्थे डाच् प्रत्ययो भवति । निष्कृष्टं कुलमवयवसंघातोऽस्मादिति निष्कुलम्, अन्तरवयवानां, बहिनिष्कासनं निष्कोषणम्, निष्कुलं करोति निष्कुलाकरोति दाडिमम् निष्कुष्णातीत्यर्थः । एवं निष्कुलाकरोति पशु चण्डालः । निष्कोषण इति किम् ? . निष्कुलं करोति शस्त्रम् ।१३९। प्रियसुखादानुकूल्ये ॥ ७. २. १४०॥ प्रियसुख इत्येताभ्यां कुगा योमे आनुकूल्ये गम्यमाने डाच् प्रत्ययो भवति । प्रियाकरोति गुरुम्, सुखाकरोति गुरुम् । गुरोरानुकूल्यं करोति तमाराधयतीत्यर्थः। आनुकूल्य इति किम् ? प्रियं करोति सामवचनम्, सुखं करोत्यौषधपानम् ।१४०॥ न्या० स० प्रिय०-सामवचनमिति आनुकूल्य हि चेतनधर्मः, तदन नास्ति एवमुत्तरेऽपि । दुःखात् प्रातिकूल्ये ॥ ७. २. १४१ ॥ दुःखशब्दात् प्रातिकूल्ये गम्यमाने कृगा योगे डाच प्रत्ययो भवति ।
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy