SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ २८० ] बृहद्वृत्ति-लघुन्याससंवलिते पाद. २ सू० ९२-९३ ] सर्वादिपरिग्रहार्थः । तेन मतुशत्रन्तव्युदासः ।९१। - न्या० स० भवत्वा०-उकारोपादानात् मुख्यवृत्त्या उदनुबन्धस्य भवतुशब्दस्य सर्वादिपठितस्य औणादिकत्वात् अव्युत्पन्नस्य प्रहणं, न तु भशब्दात् मतौ भवतुशब्दस्य, अत्र प्रत्ययस्यैव उदित्त्वं शब्दस्य तूपचारेण, यद्वा श्रुतानुमितेति न्यायात् । त्रप् च ॥ ७. २, ९२ ॥ भवत्वायुष्मदीर्घायुर्देवानांप्रियः समानाधिकरणात् किमब्यादिसर्वांद्यवैपुल्यबहोः सर्वविभक्त्यन्तात् त्रप् प्रत्ययौ वा भवति । स भवान् तत्रभवान्, तो भवन्तौ तत्रभवन्तौ, ते भवन्तः तत्रभवन्तः, तं भवन्तम् तत्रभवन्तम्, तेन भवता तत्रभवता, तस्मै भवते तत्रभवते, तस्माद्भवतः तत्रभवतः, तस्य भवतः तत्रभवतः, तस्मिन् भवति तत्रभवति । एवमायुष्मद्दीर्घायुर्देवानांप्रिवरप्युदाहार्यम् । योगविभागश्चकारेण पुनस्तस्विधानार्थः । तेन सप्तम्यन्तादपि तस् भवति । ततोभवति, तत्रभवति, अन्यथा हि ततः 'सप्तम्या:' (७-२-९४) इति परत्वात्रवेव स्यात् । रूढिशब्दाश्ते ततोभवदादयः समुदायाः पूजावचना यथाकथंचित व्युत्पाद्यन्ते । अत एव पुनस्त्यदादिरनुप्रयुज्यते । स तत्रभवान, तं तत्रभवन्तम् । केचित्तु भवच्छन्दस्यामन्त्रणे सौ भो इत्यादेशं कुर्वन्ति तन्मले ततो भोः तत्रभोः इत्यत्रापि भवति । केचित्तु भवदाययोगेऽपि ऋप्तसाविच्छन्ति । क गमिष्यसि कं देशं गमिष्यसीत्यादि ।१२।। न्या० स० त्रफ्य-अत एवेति यद्येते रूढिशब्दा न स्युरवयवार्थयोगेन प्रवर्तेरन् तदा स तत्र भवान् सं तत्रभवन्तमिति पुनस्तदः प्रयोगोऽनुपपन्नः स्यात् , प्रकृत्यैव तदर्थस्यावगतत्वात् , रूढिशब्दत्वे तु न तत्रावयवार्थोऽस्ति, किंतु समुदायोऽयं विशिष्टः पूजां गमयतीति तदर्थप्रतिपादनाय पुनस्तच्छब्दप्रयोग उपपद्यते । क कुत्रात्रेह ।। ७. २. ९३ ।। . . क, कुत्र, अत्र, इह इत्येते शब्दावबन्ता निपात्यन्ते । क्वेति किमः कादेशः, त्रपश्चाकारः । कस्मिन् क्व, कुत्रेति किमः कु इत्यादेशः, कस्मिन कुत्र, अत्रेति एतदोऽकारादेशः । एतस्मिन् अत्र, एतकस्मिन् अत्र, इहेति इदम इकारादेशः अपश्च हादेशः। अस्मिन् इह, इमकस्मिन्निह । एषु सप्तम्याः' (७-२-९४) इति अप् । अप्मात्रे चैते आदेशा विधीयन्ते तेन भवदादियोगेऽपि भवन्ति । क्वभवान्, कुत्रभवान्, अत्रभवान्, इहभवान्, क्वायुष्मान् कुत्रायुष्मान्, अत्रायुष्मान्, इहायुष्मान्, क्वदीर्घायुः, कुत्रदीर्घायुः, अत्रदीर्घायुः इहदीर्घायुः इत्यादि ।९३।
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy