SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ । पाद २. सू. ४९-५४] श्रीसिद्धहेमचन्द्रशब्दानुशासने सप्तमोऽध्यायः [ २६९ आमयावी, आमयवान् ।४८॥ स्वानमिन्नीशे ॥ ७. २. ४९ ॥ स्वशब्दान्मत्वर्थे ईशे वाच्ये मिन् प्रत्ययो भवति दीर्घश्वास्य । स्वमस्यास्तीति स्वामी। ईश इति किम् ? स्ववान् ।४९। गोः ॥७. २. ५०॥ ___ गोशब्दान्मत्त्वर्थे मिन् प्रत्ययो भवति । गावोऽस्य सन्ति गोवी, मतुश्चगोमान् । पूज्य एव मिनमिच्छन्त्यन्ये ।५०। ऊर्जा विन्वलावश्वान्तः ॥ ७. २. ५१ ।। ऊ शब्दान्मत्वर्थे विन्वल इत्येतौ प्रत्ययौ भवतः तत्संनियोगे चास्यास चान्तो भवति । ऊर्जस्वी, ऊर्जस्वलः, मतुश्व-ऊर्वान्, कथमूर्जस्वान् ? ऊर्जयतेः अस्प्रत्ययान्तस्य मतौ ।५१॥ न्या० स० ऊ!०-अस्प्रत्ययान्तस्येति योवें ऊर्जयतेरसन्तस्यास्तपोमायेत्यनेन असन्तत्वाद्विन सिद्ध एव किमत्र सूत्रे ऊर्जुशब्दाद् विन्विधानेन ? __सत्यं, असन्तस्य ऊर्जयतेनियत एव प्रयोग इति, ततोऽनेन विविधानं, एतच्च ऊर्जशब्दाद् विविधानेनैव ज्ञाप्यते । तमिस्राणेवज्योत्स्ना ॥ ७. २. ५२ ।। तमिस्रार्णवज्योत्स्ना इत्येते शब्दा निपात्यन्ते । तमिस्रति तमशब्दाद्रः उपान्त्यस्य चेत्वम् । तमोऽत्रास्तीति तमिस्रा रात्रिः, तमिस्रं तमःसमूहः, तमिस्राणि गुहामुखानि । मतुश्च । तमस्वान्, अर्णवेति अर्णसो वः प्रत्ययः अन्त्यस्य च लोपः, अर्णवः समुद्रः। ज्योत्स्नेति ज्योतिःशब्दान्नः प्रत्यय उपान्त्यलोपश्च निपात्यते। ज्योत्स्ना चन्द्रप्रभा । अन्यत्र ज्योतिष्मती रात्रिः निपातनस्येष्टविषयत्वात् ।५२। गुणादिभ्यो यः ॥ ७. २. ५३ ॥ गुणादिभ्यो मत्वर्थे यः प्रत्ययो भवति । गुण्यः पुरुषः, हिम्यः पर्वतः, मतुश्च-गुणवान्, हिमवान् । कथं को गुणिनो नार्चयेत् इति इन् ? शिखादित्वेन भविष्यति । मुणादयः प्रयोगगम्याः ।५३। रूपात्प्रशस्ताहतात् ।। ७. २. ५४ ॥ प्रशस्तोपाधिकादाहतोपाधिकाच्च रूपान्मत्वर्थे यः प्रत्ययो भवति ।
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy