________________
२६६ ]
बृहदृत्ति-लघुन्याससंवलिते [पा० २: सू०.३२-३७ ] लक्ष्म्या अनः ॥ ७. २. ३२॥
लक्ष्मीशब्दान्मत्वर्थेऽनः प्रत्ययो भवति । लक्ष्मीरस्यास्तीति लक्ष्मणः, मतौ लक्ष्मीवान् ।३२। प्रज्ञाश्रद्धा वृत्तेर्णः ।। ७. २. ३३॥
प्रज्ञाश्रद्धा वृत्ति इत्येतेभ्यो मत्वर्थे णः प्रत्ययो भवति मतुश्च । प्राज्ञः, प्रज्ञावान्, श्राद्धः, श्रद्धावान्, आर्चः, अर्चावान्, वार्तः, वृत्तिमान् । स्त्री तु प्राज्ञा श्राद्धा आर्चा वार्ता। प्राज्ञीति स्वार्थिकाणन्तात् ।३३। ज्योत्स्नादिभ्योऽण ॥ ७. २. ३४ ॥
ज्योत्स्ना इत्येवमादिभ्यो मत्वर्थेऽण प्रत्ययो भवति । ज्योत्स्ना अस्मिन्नस्ति ज्योत्स्नः पक्षः, ज्योत्स्नी रात्रिः, तामिस्रः पक्षः, तामिस्री रात्रिः । तामिस्राणि गुहामुखानि । वैसर्पो व्याधिः, वैपादिकं कुष्ठम्, कौतुपं गृहम्, कौण्डलो युवा, तापसः पाखण्डी, साहस्रो देवदत्तः, मतौ. ज्योत्स्नावान् तमिस्रावानित्यादि । तापस इति रूढिशब्दो रूढिविषये च मतुर्न भवति । कुण्डली सहस्री चेति शिखादित्वात् । ज्योत्स्नादयः प्रयोगगम्याः ।३४। . सिकताशर्करात् ॥ ७. २. ३५॥
सिकताशर्करा इत्येताभ्यां मत्वर्थेऽण् प्रत्ययो भवति मतुश्च । सैकतः, सिकतावान् देशः, शार्करः शर्करावानोदनः ।३५। इलश्च देशे ॥ ७. २. ३६ ॥
सिकताशर्कराभ्यां देशे मत्वर्थे इलश्चकारादण् च प्रत्ययौ भवतः मतुश्च । सिकतिल:, सैकतः, सिकतावान् देशः, शर्करिलः, शार्करः, शर्करावान् देशः । सिकताः, देशः, शर्कराः देशः इत्यभेदोपचारात् ।३६।।
न्या० स० इल:-ननु पूर्व सूत्रेग सामान्येन भणनादेशेऽपि 'सिकताशर्कराभ्याम' ७-२-३५ सिद्ध एवेति किमत्र तदनुकर्षणार्थेन च शब्देन ?
सत्यं, यद्यत्र चकारो न स्यात्तदनुकर्षणार्थस्तदा देशेऽसावेव स्यान्न त्वण् । ।
ननु सिकता देश इत्याद्यर्थं मत्वर्थीयस्य पक्षे लुप् लुबन्तस्य च प्रकृतिलिङ्गसंख्ये वक्तव्ये इत्याह-उपचारादिति रूढिवशाच्च बहवचनान्त इति ।
द्रोर्मः ॥ ७. २. ३७ ॥ धु इति दिवः कृतोकारस्य निर्देशः धुशब्द उकारान्तोऽहःपर्यायः