________________
२] . बृहद्वृत्ति-लघुन्याससंवलिते
वंश्यज्यायोभ्रात्रोर्जीवति प्रपौत्राद्यस्त्री युवा ॥ ६. १. ३. ॥
वंशे भवो वंश्यः पित्रादिरात्मनः कारणम् । ज्यायान् भ्राता वयोऽधिक एकपितक एकमातृको वा, प्रपौत्रः पौत्रापत्यम् परमप्रकृतेश्चतुर्थः । स्त्रीवजितं प्रपौत्राद्यपत्यं जीवति वंश्ये ज्यायोभ्रातरि वा युवसंज्ञं भवति । गाायणः, वात्स्यायनः । वंश्यज्यायोभ्रात्रोरिति किम् ? अन्यस्मिन् जीवति गार्ग्यः । ज्यायोग्रहणं किम् ? कनीयसि भ्रातरि गार्यः । जीवतीति किम् ? मते गार्यः । प्रपौत्रादीति किम् ? पौत्रो गार्ग्यः । अस्त्रीति किम् ? स्त्री गार्गी। वचनभेदः पृथनिमित्तत्वद्योतनार्थः ॥३॥
न्या. स.- वंश्यज्यायोभा०-वंश्य इति-आदिपुरुषे रूढिवशाद् वर्तते । सपिण्डे वयःस्थानाधिके जीवदा ॥ ६. १. ४॥
ययोरेकः पूर्वः सप्तमः पुरुषस्तावन्योन्यस्य सपिण्डौ, वयो यौवनादि, स्थानं पिता पुत्र इत्यादि । परमप्रकृतेः स्त्रीवजितं प्रपौत्राद्यपत्यं वयःस्थानाभ्यां द्वाभ्यामप्यधिके सपिण्डे जीवति जीवदेव युवसंज्ञं वा भवति । पितृव्ये पितामहस्य भ्रातरि वा वयोऽधिके जीवति जीवत् गार्ग्यस्यापत्यं गार्ग्यः गाायणो वा, एवं वात्स्यः वात्स्यायनो वा। सपिण्ड इति किम् ? अन्यत्र गार्यः । वयः स्थानाधिक इति किम् ? द्वाभ्यामन्यतरेण वा न्यूने गायः । जीवदिति किम् ! मृतो गार्ग्यः । जीवतीत्येव ? मृते गार्ग्यः । प्रपौत्रादीत्येव ? पौत्री गार्यः । अस्त्रोत्येव ? स्त्रो गागीं ॥४॥
न्या० स० सपिण्डे वयःस्थाना०-पितृव्ये इति-न वाच्यं पितृव्ये वाच्ये वंश्यद्वारा पूर्वणैव भविष्यति, पितृव्यस्य वंश्यताया अभावात् । पित्रादिगत्मनः कारणमिति युक्तम् । अन्यत्रेति-मातुलादावित्यर्थः ।
द्वाभ्यामन्यतरेणेति-लघौ पितृव्यजे द्वाभ्यां न्युनत्वं लघौ पितृव्ये जीवत्यऽन्यतरेण न्युनत्वमिति ।
पौत्रो गार्य इति-गर्गस्यापत्यमनन्तरमपि वृद्धत्वोपचारात् गार्ग्यस्तस्यापत्यं युवेति कृते गाायण इति प्राप्नोति, तन्न भवति । युववृद्धं कुत्सार्चे वा ॥ ६. १.५॥ युवा च वृद्धं चापत्यं यथासंख्यं कुत्सायाम यां च विषये युवसंशं वा