SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ २४२ ] बृहवृत्ति-लघुन्याससंवलिते [ पाद. १ सू० १४९-१५१ ] मानवृत्तेरस्येति षष्ठयर्थे मेयेऽतुः प्रत्ययो भवति तत्संनियोगे च इदकिम्शब्दयोरिय किय् इत्येतावादेशो भवतः । चतुर्विध मानं, तत्र प्रमाणात्, इदं मानमस्य इयान् पटः । किं मानमस्य कियान् पटः । परिमाणात्, इयद्धान्यम्, कियद्धान्यम्, उन्मानात्, इयत्सुवर्णम्, कियत्सुवर्णम्, संख्यायाः, इयन्तो गुणिनः। कियन्तो गुणिनः इयती, कियती। उदित्करणं दीर्घत्वाद्यर्थम् ॥१४८॥ __न्या० स० इदंकिमो०-दीर्घत्वाद्यर्थमिति आदिशब्दात् 'ऋदुदितः' १-४-७० इति नागमः, 'अधातूदृदितः' २-४-२ इति लीश्च गृह्यते । यत्तदेतदो डावादिः ॥ ७. १. १४९ ॥ यत्तदेतदित्येतेभ्यस्तदिति प्रथमान्तेभ्यो मानवृत्तिभ्योऽस्येति षष्ठयथें . मेयेऽतुः प्रत्ययो भवति स च डावादिः। यत्तदेतद्वा प्रमाणमस्य यावान् पटः, तावान्, एतावान्, यावत्, तावत्, एतावत्, धान्यम्, यावत्, तावत्, एतावत्, सुवर्णम् । यावन्ति तावन्ति एतावन्ति अधिकरणानि । यावती तावती एतावती। ननु मात्रडादयोऽपि दृश्यन्ते इदं प्रमाण मस्य इदंमात्रं किमात्रम् यन्मात्रम् तन्मात्रम् एतन्मात्रम् यद्दघ्नम् यद्वयसमित्यादि ? सत्यम्, स्वविषये मानविशेषे प्रमाणे मात्रटादयो भवन्त्येव मानसामान्येऽतुरेवेति विभागः ।१४९। न्या० स० यत्तदे०-नन्विति मानवाचिनोऽतावुच्यमाने कथं मात्रडादय इत्याशङ्का । यत्तत्किमः संख्याया डतिर्वा ॥ ७. १. १५०॥ संख्यारूपं यन्मानं तवृत्तिभ्यो यत्तत्किम् इत्येतेभ्यः प्रथमान्तेभ्योऽस्येति षष्ठयर्थे संख्येये मेये डतिः प्रत्ययो भवति वा पक्षे यथाविहितोऽतुश्च । या संख्या मानमेषां यति यावन्तः, सा संख्या मानमेषां तति तावन्तः, का संख्या मानमेषां कति कियन्तः । एतौ चातुडति प्रत्ययौ स्वभावाद्वहुवचनविषयावेव भवतः । संख्याया इति किम् ? क्रियान् यावान् तावान् पटः । मानादिति संख्याया विशेषणं किम् ? . क्षेपे माभूत्, का संख्या येषां दशानाम् ।१५०॥ न्या० स० यत्तत्-एतौ चेति अनेन संख्यावृत्तिभ्यो विहितो मानवृत्तेस्तु 'इदं किमोतु' ७-१-१४८ इत्यादिना एकत्वादावपि । अवयवात्तयत् ।। ७. १. १५१ ॥ तदस्येति संख्याया इति च वर्तते, मानादिति निवृत्तम्, अवयवादिति विशेषणान्तरापादानात्, अवयवे वर्तमानात्संख्यावाचिनो नाम्नस्तदिति प्रथमा
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy