________________
पाद. १. सू. १३९-१४१ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने सप्तमोध्यायः [२३९ भवति यत्तत्प्रथमान्तं संजातं चेत्तद्भवति । तारकाः संजाता अस्य तारकितं नमः, पुष्पाणि संजातान्यस्य पुष्पितस्ततः ।
तारका, पुष्प, कर्णक, ऋजीष, मूत्र, पुरीष, निष्क्रमण, उच्चार, विचार, प्रचार, आसल, कुड्मल, कुसुम, मुकुल, वकुल, स्तबक, पल्लव, किशलय, वेश, वेग, निद्रा, तन्द्रा, श्रद्धा, बुभुक्षा, पिपासा, अभ्र, श्वभ्र, रोग, अङ्गारक, अङ्गार, पर्णक, द्रोह, सुख, दुःख, उत्कण्ठा, भर, तरङ्ग, व्याधि, व्रण, कण्डूक, कण्टक, मजरी, कोरक, अङ्कर, हस्तक, पुलक, रोमाञ्च, हर्ष, उत्कर्ष, गर्व, कल्लोल, शृङ्गार, अन्धकार, कन्दल, शैवल, कुतूहल, कुवलय, कलङ्क, कज्जल कर्दम, सीमन्त, राग, क्षुध्, तृष्, ज्वर, गर, दोह, शास्त्र, पण्डा, मुकुर, मुद्रा, गर्व, फल, तिलक, चन्द्रक इति बारकादिः ॥ बहुवचनमाकृतिगणार्थम् ।१३८। गर्भादप्राणिनि ॥ ७. १. १३९॥
गर्भशब्दात्तदस्य संजातमित्यर्थे इतः प्रत्ययो भवति । अप्राणिनि स चेत्षष्ठ्यर्थः प्राणी न भवति । गर्भः संजातोऽस्य गभितो ब्रीहिः, गभिताः शालयः । अप्राणिनीति किम् ? गर्भः संजातोऽस्या दास्या इति बाक्यमेव ११३९१ प्रमाणान्मात्रट् ॥ ७. १. १४०॥
तदस्येति वर्तते । तदिति प्रथमान्तात्प्रमाणवाचिनो नाम्नोऽस्येति षष्ठयर्थे मात्रट् प्रत्ययो भवति, आयाममानं प्रमाणं, तद्विविधम् ऊर्ध्वमानं तिर्यग्मानं च । तत्रोर्ध्वमानात्, जानुनी प्रमाणमस्य जानुमात्रमुदकम् । जानुमात्री खाता, ऊरुमात्रमुदकम्, ऊरुमात्री खाता। तिर्यग्मानात, रज्जुमात्री भूमिः, तन्मात्री, तावन्मात्री। टकारो ङयर्थः ।१४०।
हस्तिपुरुषादाण ॥७. १. १४१ ।।
तदिति प्रथमान्तात्प्रमाणवाचिनो हस्तिशब्दात्पुरुषशब्दाच्चास्येति षष्ठ्यर्थेऽण प्रत्ययो वा भवति पक्षे यथात्राप्तम् । हस्ती प्रमाणमस्य हास्तिनं हस्तिमात्रम् हस्तिदनं हस्तिद्वयसमुदकम्, हास्तिनी हस्तिमात्री हस्तिदघ्नी हस्तिद्वयसी खाता। पौरुषम् पुरुषमात्रम् पुरुषदघ्नम् पुरुषद्वयसमुदकम्, पौरुषी पुरुषमात्री पुरुषदघ्नी पुरुषद्वयसी खाता, पौरुषी पुरुषमात्री छाया ।१४१।
न्वा० स० हस्ति-पौरुषी पुरुषमात्री छायेति अत्र तिर्यगमानमिति ऊचे माने विधीयमानी दघ्नदद्वयसटौ न भक्तः किंतु मात्रडेव ।