SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ [ पाद १. सू. ५५] श्रीसिद्धहेमचन्द्रशब्दानुशासने सप्तमोऽध्यायः [२१५ ऽस्मात् अभिधानप्रत्ययौ इति भावः शब्दस्य प्रवृत्तिनिमित्तम् द्रव्यसंसर्गी भेदको गुणः, यदाहुः यस्य गुणस्य हि भावात् द्रव्ये शब्दनिवेशस्तदभिधाने त्वतलाविति । तत्र 'जातिगुणाज्जातिगुणे, समासकृत्तद्धितात्तु संबन्धे । डित्थादेः स्वे रूपे, त्वतलादोनां विधिर्भवति' । तत्र जातिवचनेभ्यो जातौ, गौः शब्दस्य भावो गोत्वम् गोता, अत्र गोशब्दजातिर्भावः, गोरर्थस्य भावो गोत्वम् गोता, अत्र गवार्थजातिर्भावः । एवमश्व वमश्वता, शुक्लस्य गुणस्य भावः शुक्लत्वं शुक्लतेत्यत्र शुक्लगुणजातिः, रूपस्य भावो रूपत्वम् रूपता, रसस्य रसत्वम्, रसता। अत्र रूपादिगुणजाति: । कत्वं खत्वमिति भिन्नवर्णव्यक्तिसमवेता जातिः । कवर्गत्वं चवर्गत्वमिति ककारादिवर्गव्यक्तिसमवेता जातिः संहतिः । गुणशब्देभ्यो गुणे, शुक्लस्य पटस्य भावः शुक्लत्वम् शुक्लता । अत्र शुक्लो गुणो भावः । एवं शुक्लतरत्वं शुक्लतमत्वमिति स एव प्रकृष्टः । अणुत्वं महत्त्वमिति परिमाणलक्षणो गणः, एकत्वं द्वित्वमिति संख्यालक्षणः, पृथक्त्वं नानात्वमिति भेदलक्षणः, उच्चस्त्वं नीचैस्त्वमिति उच्छयादिलक्षणः, वृत्तौ पृथगादिशब्दाः पृथग्भूताद्यर्थे सत्वे वर्तन्ते इति प्रत्ययः विग्रहस्तु पृथग्भूतस्य भाव इत्यादि । पटवादयोऽपि गुणा एवेति पटुत्वं मृदुत्वं तीक्ष्णत्वमित्यादिष्वपि गुणो भावः । समासात्संबन्धे, राजपुरुषत्वं चित्रगुत्वम् । अत्र स्वस्वामिसंबन्धः । कृतः संबन्धे, पाचकत्वं पक्तृत्वं कार्यत्वं साधनत्वम् । अत्र क्रियाकारकसंबन्धः । तद्धितासंबन्धे, औषगवत्वम् दण्डित्वं विषाणित्वम् । अत्रोपगुदण्डादिसंबन्धः । डित्थादेः स्वरूपे, डित्थादेस्तु यदृच्छाशब्दादन्यस्य प्रवृत्तिनिमित्तस्यासंभवात्तस्मिन्नेव स्वरूपे डित्थशब्दवाच्यतया अध्यवसितभेदेऽव्यतिरिक्तऽपि व्यति रिक्त इव शब्दप्रत्यय बलात् बुद्ध्यावगृहीते धर्मे प्रत्ययः। डित्थस्य भावः स्वरूपंडित्थत्वं डवित्थत्वम् । एवं गोजाते वो गोत्वम् गोतेति गोशब्दस्य स्वरूपम् । शुक्ल जातेर्भावः शुक्लत्वं शुक्लतेति शुक्लशब्दस्य स्वरूपम्, गवादयो हि यदा जातिमात्रवाधिनस्तदा तेषां शब्दस्वरूपमेव प्रवृत्तिनिमित्तम्, तथाह्यर्थजातो शब्दार्थयोरभेदेन शब्द स्वरूपमध्यवस्यते यो गोशब्दः स एवार्थ इति । एवं देव दत्तत्वं, चन्द्रत्वं, सूर्यत्वं, दिक्त्वम्, आकाशत्वम्, अभावत्वमिति स्वरूपमेवोच्यते । एके तु यहच्छाशब्देषु शब्दस्वरूपं संज्ञासंज्ञिसंबन्धो वा प्रवृत्तिनिमित्तमिति मन्यन्ते, अन्ये तु डिस्थत्वं देवदत्तत्वमिति वयोऽवस्थाभेदभिन्न व्यक्तिसमवेतं सामान्यम्, चन्द्रत्वं सूर्यत्वमिति कालावस्थाभेद भिन्नव्यक्तिसमवेत सामान्यं, दिक्त्वम् आकाशत्वम् अभावत्वम् इति उपचरितभेदव्यक्तिसमवेतं सामान्य
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy