SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ [पाद. ३. सू. १८७-१८९] श्रीसिद्धहेमचन्द्रशब्दानुशासने षष्ठोध्यायः [१४९ इत्यादि सिद्धं भवति । ब्राह्मणमपि वेद एब । मन्त्रब्राह्मणं हि वेदः ।१८६। न्या० स० शौन-शाट्याथनिन इति ध्यणन्तात् 'तिकादेरायनिञ्। ६-१-१०७ इत्यायनण् , शाट्यायनिना शाट्याबनेन वा प्रोक्तं वेदं विदन्त्यधीयते वा । नन्वनेन वेदे प्रत्ययोऽभ्यधामि तत्कथं भाल्लविना प्रोकं ब्राह्मणम् ? इत्याह-ब्राह्मयमपीति । पुराणे कल्पे ॥ ६. ३. १८७ ॥ तेनेति तृतीयान्तात्प्रोक्तेऽर्थे णिन् प्रत्ययो भवति, अणाद्यपवादः । स चेत्प्रोक्तः पुराणः कल्पो भवति । पिन प्रोक्तः कल्पः पुराणः पैनी कल्पः, तृणपिङ्गेन तार्णपिङ्गी कल्पः, अरुणपराजेन आरुभपराजी कल्पः, येऽपि पङ्गिनं कल्पं विदन्त्यधीयते वा तेऽपि पङ्गिनः, आरुणपराजिनः । प्रोक्ताद्धि लुबुक्तैव । पुराण इति किम् ? आश्मरथः कल्पः। आश्मरथ्येन प्रोक्तः कल्प उत्तरकल्पेभ्य आरातीय इति श्रूयते ।१८७॥ काश्यपकौशिकावेदवच ।। ६. ३. १८८ ॥ आभ्यां तेन प्रोक्त पुराणे कल्पे णिन् प्रत्ययो भवति, ईयापवादः । वेदवच्चास्मिन्कल्पे कार्य भवति। काश्यपेन प्रोक्त पुराणं कल्पं विदन्त्यधीयते वा काश्यपिनः, कोशिकेन कौशिकिनः, काश्यपिनां धर्म आम्नायः संघो वा काश्यपकः, कौशिकिनां कोशिककः । वेदवच्चेत्यतिदेशाद्वेदेन् ब्राह्मममत्रैवेति नियमाद्वेदित्रध्येतृविषयता 'चरणादकञ्' (६-३-१६७) इत्यकञ् च भवति । कल्प इत्येव ? काश्यपीया संहिता, पुराण इत्येव ? इदानींतनेन गोत्रकाश्यपेन प्रोक्तः कल्पः काश्यपीयः । वदवच्चेति अतिदेशार्थ वचनम् ॥१८८। . न्या० स• काश्य० अतिदेशार्थमिति 'पुराणेकल्पे' ६-३-१८७ इत्यनेनैव सिद्धत्वात् । शिलालिपाराशर्यान्नटभिक्षुसूत्रे ॥ ६. ३. १८९ ॥ शिलालिन्पाराशर्य इत्येताभ्यां तेन प्रोक्ते यथासंख्यं नटसूत्रे भिक्षुसूत्रे च णिन् प्रत्ययो भवति, अणअपवादः। वेदवच्चास्मिन् कार्यं भवति, नटानामध्ययनं नटसूत्रम् । भिषणामध्ययनं भिक्षुसूत्रम् । शिललिना प्रोक्त नटसूत्रं विदन्त्यधीयते वा शैलालिनो नटाः, पाराशर्येण प्रोक्त भिक्षुसूत्रं विदन्त्यधोयते वा पाराशरिणो भिक्षक, शैलालिनां धर्म: आम्नायः संघो वा शैलालकम्, पाराशरकम्, अतिदेशाद्वेदित्रध्येतृविषयता चरणादकञ् च भवति । नट भिक्षुसूत्र इति किम् ? शैलालं पाराशरम् ।१८९। न्या० स० शिला०-भणत्रपवाद इति शिलालिन् शब्दात्तेन प्रोक्त पाराशर्यात्तु शकलादेर्यनः।
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy