SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ ( पाद. ३. सू. १७८-१८२] श्रीसिद्धहेमचन्द्रशब्दानुशासने प्रष्ठोध्यायः [१४७ वाहनात् ॥ ६. ३. १७८॥ बाहनवाचिनस्तस्येदमित्यर्थेऽञ् प्रत्ययो भवति, अणादेरपवादः । उष्टस्यायमौष्टः, रासभः, हास्तो रथः ।१७८। न्या० स० वाह०-अणादेरिति आदिशब्दादीयययोः, ईये रासभ इति, व्ये औष्ट्रपतमिति द्रष्टव्यमिति । वाह्यपथ्युपकरणे ॥ ६. ३. १७९ ॥ नियमसूत्रमिदम्, वाहनाद्योऽयं प्रत्यय उक्तः स वाह्य पथि उपकरणे एव चेदमर्थे भवति नान्यत्र । अश्वस्यायामाश्वो रथः, आश्वः पन्थाः, आश्व पल्ययनम्, आश्वी कशा, वाह्यपथ्युपकरण एवेति नियमादन्यत्र वाक्यमेव न प्रत्ययः, अश्वानां घासः ।१७९।। __न्या० स० वाह्य०-यदि पूर्वेण सह एकयोगं कुर्यात्तदानीं वाहनवाचिनो वाह्यपथ्युपकरणे अत्रेवान्यत्र यथा प्राप्तमेव स्यात् , पृथग्योगं तु नियमार्थम् । वहेस्तुरिश्वादि ॥ ६. ३. १८०॥ वहेः परो यस्तृचस्तृनो वा तृशब्दस्तदन्तानाम्नस्तस्येदमित्यर्थेऽप्रत्ययस्तृशब्दस्य चादिरिकारो भवति । संवोढुः सारथेरिदं सांवहित्रम् ।१८०। ___ न्या० स० वहे०-सांवहित्रमिति अत्र परे इकारागमे कर्तव्ये ढत्वादिशास्त्रमसत् , इकारागमे च कृते न प्राप्नोति । तेन प्रोक्ते ॥ ६. ३. १८१ ॥ प्रकर्षेण व्याख्यातमध्यापितं वा प्रोक्तम् न तु कृतम्, तत्र कृत इत्येव गतत्वात् । तस्मिन्नर्थे तेनेति तृतीयान्तान्नान्नो यथाविहितं प्रत्यया भवन्ति । भद्रबाहुना प्रोक्तानि भाद्रबाहवानि उत्तराध्ययनानि, गणधरप्रत्येकबुद्धादिभिः कृतानि तेन व्याख्यातानीत्यर्थः । याज्ञवल्क्येन याज्ञवल्क्यानि ब्राह्मणानि, पाणिनेन पाणिनीयम्, आपिश लिना आपिशलम्, काशकृत्स्निना काशकृत्स्नम् । उशनसा औशनसम्, बृहस्पतिना बार्हस्पत्यम् ।१८१॥ मौदादिभ्यः ॥ ६. ३. १८२ ॥ मौदइत्येवमादिभ्यस्तेन प्रोक्तं यथाविहितं प्रत्ययो भवति, स चापवादैबर्बाधितोऽणेव । अपवादस्यैव भावे वचनानर्थक्यात् । मौदेन प्रोक्तं वेदं विदन्त्यधीयते वा मौदाः, 'वेदेन्ब्राह्मणमत्रव' (६-२-१३०) इति नियमात् अत्र वेदित्रध्येतृविषय एवाण् । एवं पैष्पलादाः, जाजलाः, माथुरेण प्रोक्ता माथुरी वृत्तिः, सौलभानि ब्राह्मणानि, मौदादयः प्रयोगगम्याः ।१८२॥
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy