SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ १३६ ] बृहवृत्ति-लघुन्याससंवलिते [ पाद. ३ सू० १३८-१४१ } आन्तश्मिकः, आन्तपुरिकः । अव्ययीभावादित्येव ? अन्तर्मतमगारस्य अन्तःस्थं वागारमन्तरमारम् तत्र भवभान्तरगारम् । आन्तःपुरम्, आन्तःकरणम् ।१३७। न्या० स० अन्त:०-आन्तस्मिक इति वेश्मनोऽन्तः 'नपुंसकाद्वा ' ७-३-८९ (इति) अत्, अन्तर्वेश्मे अन्तर्वेश्म 'सप्तम्या वा' ३-२-४ अम् , अन्तर्वेश्म वा भवः ।। पर्यनो मात् ॥ ६. ३. १३८।। परि अनु इत्येताभ्यां परो यो ग्रामशब्दस्तदन्तादव्ययीभावात्तत्र भके इकण प्रत्ययो भवति, अणोपवादः । ग्रामात्परि परिग्रामम्, ग्रामस्य समीपमनुग्रामम्, तत्र भवः पारिनामिकः, आनुग्रामिकः । अव्ययीभावादित्येव ? परिगतो ग्रामः परिग्रामस्तत्र भव: पारिग्रामः आनुग्रामः ।१३८। उपाज्जानुनीविकर्णात् प्रायेण ।। ६.३.१३९॥ उप इत्येतस्मात्परे ये जानुनीविकर्णशम्दास्तदन्तादव्ययीभावादिकण प्रत्ययो भवति प्रायेण तत्र भवे यस्तत्र बाहुल्येन भवति अन्यत्र च कदाचिद्भवति तस्मिन्नित्यर्थः । जानुन: समीपमुपजानु, प्रायेणोपजानु भवति औपजानकः सेवकः, औपजानुकं शाटकम्, औपनीविकं ग्रीवादाम, औपनीविक कार्षापणम्, औपकणिकः सूचकः । प्रायेणेति किम् ? नित्यं भवे माभूत् । औपजानवं मांसम्, औपजानवं गड़, जानुशब्दो देहावयवो नोपजानुशन्द इति यो न भवति ।१३९। रुदावन्तःपुरादिकः ॥ ६. ३. १४० ॥ अन्तःपुरशब्दात्तत्र भवे इकः प्रत्ययो भवति रूढौ स चेदन्तःपुरशब्द: कचिद्रूढो भवति । क चायं रूढः एकपुरुषपरिग्रहे वीसमुदाये, उपचारात्तनिवासेऽपि । अन्तःपुरे भवा अन्तःपुरिका खी। रूढाविति किम् ? पुरस्यान्तर्गतम् अन्तःपुरम् यथान्तरगुलो नख इति । तत्र भवः मान्तःपुरः । पुरस्यान्तरन्तःपुरमिति अव्ययीभावात्त्विकण् भवति । आन्तःपुरिक इति ।१४०। न्या० स० रुढा-अन्त:पुरमिति पुरस्य शरीरस्य अन्तर्गतं चित्तस्थं गृहस्य वाऽन्तर्गतम् , अव्ययीभावादिति रूढाविति वचनात् अव्ययीभावादिति निवृत्तं, अव्ययीभावे रूढेरसंभवात् , . अम्तःपुरमिति पत्र राज्ञोऽन्तःपुरमिति राज्ञः स्त्रीवर्ग उच्यते, नासावव्ययीभावार्थो भवति, अव्ययीभावो हि पूर्वपदार्थप्रधानोन्तरर्थप्रधान इति पूर्वेणेकणेव भवतीति । कर्णललाटाकल ॥ ६.३.१४१ ॥ रूढाविति वर्तते । सेह रूढिः प्रकृतिप्रत्ययसमुदायस्य विशेषणम् । . कर्णललाटशब्दाभ्यां तत्र भवे कल् भवति रूढी प्रकृतिप्रत्ययसमुदायवेक्व
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy