SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ ९४ ] बृहद्वृत्ति-लघुन्याससंपलिते [ पा० २. सू० १२५-१२८ ] पदोत्तरपदेभ्य इकः ॥ ६. २. १२५॥ पदशब्द उत्तरपदं यस्य तस्मात्पदशब्दात्पदोत्तरपदशब्दाच्च वेत्त्यधीते वेत्यर्थे इकः प्रत्ययो भवति । पूर्वपदिकः, उत्तरपदिकः, पूर्वपदिका, उत्तरपदिका, पद पदिकः, पदिका, पदोत्तरपदिकः, पदोत्तरपदिका । बहुवचनं सर्वभङ्गपरिग्रहार्थम् ।१२५। न्या० स० पदोत्तरपदेभ्यः पदशब्द उत्तरपदं यस्य पदोत्तरपदश्च पदश्च पदोत्तरपदश्च सूत्रत्वादेकशेषः । पदक्रमशिक्षामीमांसासाम्नोऽकः ॥ ६. २. १२६ ।। पद क्रम शिक्षा मीमांसा सामन् इत्येतेभ्यो तद्वेत्त्यधीते वेत्यर्थेऽकः . प्रत्ययो भवति । पदकः, क्रमकः, शिक्षकः, मीमांसकः, सामकः। उपनिषच्छब्दादपीच्छति कश्चित् । उपनिषदकः, के सति शिक्षाका शिक्षिका शिक्षका । मीमांसाका मीमांसिका मीमांसकेति रूपत्रयं स्यात् । शिक्षिका मीमांसिकेति चेष्यते, तदर्थमकवचनम् ।१२६॥ न्या. स. पदक्रम-रूपत्रयमिति 'इच्चापुंसोनिक्याप्परे' २-४-१०७ इत्यनेन । ससर्वपूर्वाल्लुप् ॥ ६. २. १२७ ॥ सपूर्वात्सर्वपूर्वाच्च वेत्यधीते वेत्यर्थे विहितस्य प्रत्ययस्य लुप् भवति । सवातिकमधीते सवार्तिकः, ससंग्रहः, अणो लुप् । सकल्पः, अत्रेकणः, सर्ववेदः, सर्वतन्त्रः, अत्राणः, सर्वविद्यः, अत्रेकणः । कथं द्विवेदः पश्चव्याकरण इति ? 'द्विगोरनपत्ये यस्वरादेलु बद्विः' (६-१-२४) इति लुपि भविष्यति ।१२७। संख्याकात्सूत्रे ॥ ६. २. १२८ ॥ संख्याया: परो यः कः प्रत्ययो विहितस्तदन्तात्सूत्रे वर्तमानात् नाम्नो वेत्त्यधीते वेत्यर्थे उत्पन्नस्य प्रत्ययस्य लुब भवति, अप्रोक्तार्थ आरम्भः । अष्टावध्यायाःपरिमाणमस्य अष्टकं सूत्रम् । तद्विदन्ति अधीयते वा अष्टकाः पाणिनीयाः, आपिशलीयाः, त्रिकाः काशकृत्स्नाः, दशका उमास्वातीयाः, द्वादशका आर्हताः, संख्याग्रहणं किम् ? माहावातिकाः, कालापकाः । कादिति किम् ? चतुष्टयं सूत्रमधीयते चातुष्टयाः ।१२८१ ___ न्या० स० संख्याकात्०-अप्रोक्तार्थ आरम्भ इति अन्यथोत्तरेणैव सिध्यति, त्रयोदश चाध्याया मानमस्य अवयवात्तयट्बाधकः 'संख्याऽतेः कः' ६-४-१३०. त्रिकं दशकं च विदन्त्यधीयते वा यदा तु 'क्वचित्' ५-१-१७१ इति डे कलापोऽस्यास्ति, कलापिना प्रोक्तं तेन प्रोक्तं'
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy