SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ [पाद २. सू. ८४-८५] श्रीसिद्धहेमचन्द्रशब्दानुशासने षष्ठाध्यायः [८३ उलुन्द, खावुरायण, खापुरायण, खानुरायण, कौष्टायन, कौद्रायण, भास्त्रायण, गर्ताय न, रैवत, रायस्पोष, विपथ, विपाश, उद्दण्ड, उदञ्चन, ऐडायन, जाम्बवत, जाम्बवत्, शिशपा, वीरण, धौमतायन, यज्ञदत्त, सुयज्ञ, बधिर, बिल्व, जम्बू, साम्बुरायण, सौशायन, सौमायन, शाण्डिल्यायन, श्वित्रायणि, साम्वरायण, कश, कृत्स्न, सुशर्मन् इत्यरीहणादिः ।८३। सुपन्थ्यादेर्व्यः ॥ ६. २. ८४ ॥ सुपन्थिन् इत्यादिभ्यश्चातुरथिकोज्यः प्रत्ययो भवति देशे नाम्नि । सौपन्थ्यम्, सौवन्थ्यम् सुपथिन्शब्दस्यात एव निपातनात् पकारातरो नागमः पस्य च वा वकारः । सांकाश्यम्, काम्पील्यम् सुपन्थिन्, सुवन्थिन्, संकाश, कम्पील, सुपरि, यूप, अश्मन्, अश्व, अङ्ग, नाथ, कुण्ट, कुट, कूट, मादित, मृष्टि आगस्त्य, शूर, विरन्त, विकर, नासिका, प्रगदिन्, मगदिन्, कटिद, कटिप, कटिव, चूदार, मदार, मजार, कोविदार, कश्मीर, शूरसेन कुम्भ, सीर, सरक, समल, अंस, नासा, रोमन, लोमन्, तीर्थ, पुलिन, मलिन, अगस्ति, सुपथिन्, दश, नल, सकर्ण, कलिव, खडिव, गडिव इति सुपन्थ्यादिः ।८४। न्या० स० सुपन्थ्यार्थ्य: सुपन्ध्यादिर्विचार्यते, शोभनः पन्थाः सुपन्थाः सुपन्थिन् गणपाठात् वत्वे सुवन्धिन् , संकाशते अच् संकाशः, के सुखं पीलति कंपीलः, सुष्ठु पिपर्ति 'स्वरेभ्य इ.' ६०६ (उणादि) सुपरिः, 'युसकु' २९७ (उणादि) इति यूपः, 'गम्यमि' ९२ (उणादि) इति 'उरवनख' इति वा अङ्गः, नाथति अच् नाथः, कुटति 'नाम्युपान्त्य' ५-१-५४ इतिके कुट:, कूटयति अचि कूटः, माद्यन्तं प्रयुक्ते माद्यते स्म मादितः, मार्जनं मर्शनं मर्षणं वा मृष्टिः, 'अगपुलाभ्याम' ६६३ ( उणादि) इति अगस्त्यः तस्यापत्यमृष्यण् भागस्त्यः, शूरयतेऽचू शूरः, विरमति 'पुतपित्त' २०४ ( उणादि ) इति यद्वा विरमतीति औणादिके तृप्रत्यये विरन्तरमाचष्टे णिजि विरन्तयति, अचि विरन्तः । विकरोति अचि विशिष्टौ करो यस्य वा विकरः, नसते 'नसिवसि' ४० ( उणादि) इति नासिका, प्रगदतीत्येवंशीलः प्रगदी, मां गदतीत्येवंशीलः 'क्यापो बहुलं नाम्नि २-४-९९ इति ह्रस्वे मगदी, कटिं ददाति, पाति वाति वा कटिदः, कटिपः, कटिवः । चुदण् 'द्वार' ४११ इति चूदारः, 'अग्यगि ४०५ (उणादि ) इति मदारः, मृजुमजशब्दे, मजति 'अग्यङ्गि' ४०५ (उणादि) इति बहुवचनात् 'द्वार' ४११ (उणादि) इति वा मजारः, कनेः 'कोविद' इति कोविदारः । सुतंगमादेरि ॥ ६. २. ८५ ॥ .. सुतंगमादिभ्यश्चातुरथिक इञ् प्रत्ययो भवति देशे नाम्नि । सौतंगमिः मौनि वित्तिः, सुतंगम, मुनिवित्त, विप्रचित्त, महावित्त, महापुत्र, शुक्र, श्वेत,
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy