SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ । पाद. २. सू. ५५-५७] श्रोसिद्धहेमचन्द्रशब्दानुशासने पष्ठोध्यायः [७५ ह्योगोहादीनञ् हियङ्गुश्चास्य ॥ ६. २. ५५ ॥ ह्योगोदोहशब्दाद्विकारे नाम्नि ईनञ् प्रत्ययो भवति तत्संनियोगे च प्रकृतेहिया इत्यादेशः । ह्योगोदोहस्य विकारः हैयङ्गवीनं नवनीतं घृतं वा । नाम्नीत्येव ? ह्योगोदोहस्य विकार इदमुदश्वित् ह्यौगोदोहमित्यणेव भवति ।५५। न्या ० स० ह्योगो०-हैयगवीनमिति न ह्योगोदोहविकार मात्रं किंतु किंचिदेवेत्याह-नवनीतेति तेनाभ्यामन्यत्र न भवतीति प्रत्युदाहरति । . अपो यञ् वा ।। ६. २. ५६ ॥ अपशब्दाद्विकारे यञ् प्रत्ययो वा भवति, ए.स्वरमयटोऽपवादः । अपां विकारः आप्यम्, अम्मयम् ।५६। • लुब्बहुलं पुष्पमूले ॥ ६. २. ५७॥ विकारावयवयोविहितस्य प्रत्ययस्य पुष्पे मले वा विकारतयावयवतया वा विवक्षिते बहुलं लप भवति । मल्लि काया विकारोऽवयवो वा पुष्पं मल्लिका, यूथिका, नवमालिका, मालती । एषु अणो मयटो वा लुपि 'यादेगीणस्याकिपस्तद्धितलुक्य गोणीसूच्योः' (२-४-९४) इति स्त्रीप्रत्ययनिवृतौ लुबन्तस्य स्त्रीत्वापुनः स्त्रीप्रत्ययः । जातेर्जाति: । पाटल्याः पाटलाया वा पाटलं पाटला वा । यदाहुः-पुष्पे क्लीबेऽपि पाटला, पाटलीत्यपि । कुन्दम् , सिन्दुवारम्, कदम्बम्, करवीरम्, अशोकम्, चम्पकम्, कणिकारम्, कोविदारम् । विदार्या मूलं विदारी, अशुमती, बृहती, हरिद्रा, माधवी, मुस्ता कचिन्न भवति । वरणस्य पुष्पाणि वारणानि, एरण्डस्य मूलानि ऐरण्डानि, बिल्वस्य बैल्वानि । कचिद्विकल्पः, शिरीषस्य पुष्पाणि शिरीषाणि, शैरीषाणि । हीबेरस्य मूलानि हीबेराणि, हैबेराणि । कचित्पुष्पमूलाभ्यामन्यत्रापि भवति । आमलकस्य विकारो वृक्षः आमलकी, बदरो, बोहेविकारः स्तम्बः व्रीहिः ।५७। या० स० लुब्बहुलं-मल्ल्यते मूर्द्धि पदिपठि' ६०७ ( उणादि ) इति के च 'दृकृन्' २७ ( उणादि) इत्यऽके वा। मल्लिका, यूयते ‘पथयुथ' २३१ ( उणादि) इति थे यूथीके यूथिका । यूथो जालकमस्त्यस्यां वा । नवा मालाऽम्यां नवमालिका । मां लाति 'पृषिरञ्जि' २०८ ( उणादि ) इति किदते गौरादित्वाद् ङ्यां मालयत्यामोदैर्वा 'पुतपित्त' २०४ ( उणादि) इति मालतो । अणो मयटो वेति मालत्या दुमयटोऽन्येभ्यस्तु 'प्राण्यौषधि' ६-२-३१ इत्यणोऽभक्ष्याच्छादनविवक्षायां तु मयटो लुप्, पुनगौरादित्वाद् ङीः ।
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy