SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ पाद-४, सूत्र-८५-८६ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः [७१ व्यत्यसृष्ट माले मिथुनम् , सृजति,-स्रक्ष्यति मालां मालिकः । तथेति वचनावद्यतन्यामात्मनेपदे ते जिच तलुक्च शिति च क्य इति सिद्धम् ॥४॥ न्या० स०-सृजः श्राद्धे-अत्र निक्यौ तथा विधीयेते । आत्मनेपदं तु मुख्यमेव विधीयते । तपेस्तपःकर्मकात् ॥ ३. ४. ८५ ॥ तपेर्धातोरर्थान्तरवृत्तित्वेन तपःकर्मकात् कर्तरि जिक्यात्मनेपदानि भवन्ति तथा । तप्यते तपः साधुः, तेपे तपांसि साधुः, तपिरत्र करोत्यर्थः, त्रिच तु 'तपः कत्रनुतापे च' (३-४-९१) इति प्रतिशोधान्न भवति, अन्वतप्त तपः साधुः। तपेरिति किम् ? कुरुते तपांसि साधुः । तप इति किम् ? उत्तपति सुवर्ण सुवर्णकारः । कर्मेति किम् ? तपांसि साधुतपन्ति, दुःखयन्तीत्यर्थः ।।५।। न्या० स०- तपेस्तप-अर्थान्तरवृत्तित्वेनेति-करोत्यर्थेनेत्यर्थः । एकघातौ कर्मक्रिययेकाकर्मक्रिये ॥ ३. ४. ८६ ॥ एकस्मिन्धातौ कर्मस्थक्रियया पूर्वदृष्टया एका अभिन्ना संप्रत्यकमिका क्रिया यस्य तस्मिन्कर्तरि कर्मकर्तृरूपे धातोजिक्यात्मनेपदानि तथा भवन्ति । अकारि कटः स्वयमेव, करिष्यते कटः स्वयमेव, क्रियते कटः स्वयमेव, क्रियमाण: कट: स्वयमेव, चके कटः स्वयमेव, अमेदि कुशूल: स्वयमेव, भिद्यते कुशूलः स्वयमेव, बिभिवे कुशूलः स्वयमेव, प्रत्र करोति कटम् , भिनत्ति कशूलमित्यादौ यैव कटादिकर्मणां निर्वृत्तिद्विधाभवनादिका क्रिया सैव सौकर्यादविवक्षिते कर्तृव्यापारे स्वातन्त्र्यविवक्षायां तस्मिन्नेव धातावमिका च, एवं चाकर्मत्वाद्भावेऽप्यात्मनेपदं भवति । क्रियते कटेन, भिद्यते कुशूलेन । एकधाताविति किम् ? पचत्योदनं चैत्रः, सिध्यत्योदनः स्वयमेव । कर्मक्रिययेति किम् ? साध्वसिश्छिनत्ति, साधु स्थाली पचति इति करणाधिकरणक्रिययकक्रिये माभूत् । एकक्रिययेति किम् ? स्रवत्युदकं कुण्डिका, स्रवत्युदकं कुण्डिकायाः । अत्र विसजति, निष्कामतीति क्रियाभेदात् , गलन्त्युदकं वलीकानि, गलत्युदकं वलोकेभ्य इति । अत्रापि मुञ्चतीति, पततीति, क्रियाभेदात् नैकक्रियत्वम्। अकर्मक्रिय इति किम् ? भिद्यमानः कुशूलः पात्राणि भिनत्ति । अन्योन्यमाश्लिष्यतः, हन्त्यात्मानमात्मा। एकस्य कर्मत्वं कर्तृत्वं च कथमिति चेत् ? उच्यते-सर्वमपि हि कर्म स्वव्यापारे स्वातन्त्र्यमनुभूय कर्तृव्यापारेण न्यक्कृतं सत् कर्मतामनुभवति । कर्तृव्यापाराविवक्षायां तु स्वव्यापारे स्वातन्त्र्यात् कर्तृत्वमस्याव्यावृत्तमेव । यदाहुः निवृत्त्यादिषु तत्पूर्वमनुभूय स्वतन्त्रताम् । कञन्तराणां व्यापारे, कर्म संपद्यते ततः ॥१॥ निवृत्तप्रेषणं तत्स्वनियावयवे स्थितम् । निवर्तमाने कर्मत्वे स्वे कर्तृत्वेऽवतिष्ठते ॥२॥ इति ॥८६।।
SR No.034256
Book TitleSiddh Hemhandranushasanam Part 02
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages520
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy