________________
बृहद्वृत्ति - लघुन्याससंवलिते [ पाद- ४, सूत्र - ६१-६४
द्विद्धं सुबद्धं भवतीति ज्ञापनार्थ:, तेनास्मादऽङोऽव्यभिचारः अन्येषां तु क्वचिद्व्यभि चारोऽपि तेन भगवन्मा कोपीरित्यादि बालरामायणोक्त सिद्धम् ।
६४
सर्त्यतैर्वा ॥ ३. ४. ६१ ॥
सृ
'सृऋ' प्राभ्यां धातुभ्यां कर्तर्यद्यतन्यामङ् प्रत्ययो वा भवति । ॠ अदादिवदिर्वा । प्रसरत्, प्रसार्षीत् । सर्तेः कर्तरि आत्मनेपदे न दृश्यते इति नोदाह्रियते । ऋआरत्, प्रार्षीत्, समारत, समार्ष्ट । श्रात्मनेपदे न भवति परस्मैपदे नित्यमित्येके, परस्मैपदे नित्यमात्मनेपदेऽर्तेर्वा सर्तेर्नेत्यन्ये । उभयत्र नित्यमित्यपरे, ति निर्देशो यङ्लुबन्तनिवृत्त्यर्थः - असरिसारीत्, प्रारारीत् ॥ ६१ ॥
7
न्या० स० - सतें - श्रदादिवदिति-निर्देशादेव शवऽभावे तिनिर्देशस्य समानत्वादुभयोर्ग्रहणमित्यर्थः । भ्रात्मनेपदं न दृश्यत इति - ' क्रियाव्यतिहार' ३-३-२३ इत्यत्र गत्यर्थवर्जनात् सर्वे गत्यर्था ज्ञानार्था इति ज्ञानार्थस्यापि नेष्यते । समाष्ट इति-अत्र नित्यत्वात् सिज्लोपात् प्रागेव 'स्वरादेस्तासु' ४-४-३१ इति वृद्धिरिति न्यासः, 'एत्यस्तेर्वृद्धि:' ४-४-३० इति ज्ञापकज्ञापिता विधयो ह्यनित्या इति न्यायाद् वा प्रागेव वृद्धिः । सर्वनेत्यन्य इति - ते हि सर्त्तेरात्मनेपदमिच्छन्ति नाऽङम् । आरारीत् भृशं पुन: पुनर्वा इयत्त ऋच्छति वा 'अति' ४-४-३० इति यङ् तस्य लुप् ततो द्विर्वचनम्, 'ऋतोत्' ४ १ ३८ 'रिरौ च लुपि' ४-१-५६ इति रागमस्ततोऽद्यतनीदि, सिच्, 'स: सिजस्तेदिस्यो:' ४-३-६५ ईत्, इट् 'इट ईति' ४-३ - ७१ सिच्लोपस्तत: 'सिचिपरस्मै ० ' ४-३-४४ इति धातोद्धिरार्, ततः ‘स्वरादेस्तासु, ४-४- ३१ इति पूर्वस्याकारस्य आकारः ।
ar-faq-faa: 11 3. 8. ॥ ६२ ॥
एम्य: कर्तर्यद्यतन्यामङ् प्रत्ययो भवति । आहृत्, अलिपत्, असिचत् ।। ६२ ।। वात्मने ॥ ३. ४. ६३ ॥
ह्वादिभ्यः कर्तर्यद्यतन्यामात्मनेपदे वाङ् भवति । आह्नत आह्वास्त, अलिपत, अलिप्त, असिचत, असिक्त ।। ६३ ।।
न्या० स० - वात्मने० :- श्रातेति - स्पर्द्धापूर्वके आकारणे 'ह्वः स्पर्द्ध:' ३-३-५६ इत्यनेनात्मनेपदं, सामान्याकारणे 'ईगित : ' २-३ - ९५ इत्यनेनात्मनेपदम् ।
लृदिद- तादि- पुष्यादेः परस्मै ॥ ३. ४. ६४ ॥
लृदितो घातोर्छु तादिभ्यः पुष्यत्यादिभ्यश्च कर्तर्यद्यतन्यां परस्मैपदे अङ् प्रत्ययो भवति । लृदित्- अगमत् असृपत्, अशक्त् । द्युतादि - अद्युतत् अरुचत् । द्युतादयो 'द्युद्भ्योSद्यतन्याम्' ( ३-३-४४ ) इत्यत्र परिगणिताः । पुष्यादिः - अपुषत् औचत्, प्रश्लिषत् जतु च काष्ठं च पुष्यादयो दिवाद्यन्तर्गताः 'दिवादेः श्य:' ( ३-४-७२ ) इत्यत्र परि