SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ पाद-४, सूत्र-३०-३१ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः [५३ शुचि, नील, हरित, मन्द, मद्र, भद्र, संश्चत , तृपद, रेफन , रेहव , वेहव , वर्चस् , उन्मनस् , सुमनस् , दुर्मनस् , अभिमनस् ॥ २६॥ ___न्या० स०-चव्यर्थे भृशार्थे०-व्यर्थ इत्यनेनेति-ननु भृशादेश्व्यर्थे क्यङविधानात् च्व्यर्थस्य चाऽक्रियारूपत्वात् ( अधातुत्वात् ) कथं क्यङन्तात्तिवादिरित्याह-लक्षणयेतिउपचारेणेत्यर्थः, मुख्यवृत्त्या हि व्यर्थ इत्यनेन प्रागऽतत्तत्वं केवलमेवाभिधीयते, न भवत्यर्थविशिष्टं, लक्षणया तु तद्विशिष्टमपि, यद्येवं च्व्यर्थ इत्यनेन प्रागतत्तस्वं लक्ष्यते तहि करोत्यर्थविशिष्टेऽपि प्रागतत्तत्त्वं प्राप्नोतीत्याशङ क्याह करोतिस्त्वित्यादि-अयमर्थः करोत्यर्थविशिष्टे प्रागऽतत्तत्त्वे भशादीनां कर्तृत्वं न संभवत्यपि तु कर्मत्वमेवेत्याह-कर्तु रित्यनेन व्युदस्त इति-ननु व्यर्थे च्वे: क्यङश्च विधानात् क्यङा च्विबाधा प्राप्नोति ? इत्याशङक्याह-प्रागतत्तत्वमात्रे इति-अयमर्थः भवत्यर्थविशिष्टे व्यर्थे क्यङ विहितः, च्विस्तु तद्योगमात्रेऽत एव वियोगे करोति भवत्योः प्रयोगो भवत्यऽनुक्तार्थत्वात् क्रियार्थत्वाभावाद् धातुत्वं च न भवति । डाच्लोहितादिभ्यः षित् ॥ ३. ४. ३० ॥ डाचप्रत्ययान्तेभ्यो लोहिताविभ्यश्च कर्तृभ्यश्च्च्यर्थे क्यङ् प्रत्ययः षिद्भवति वा । डाच अपटत् पटद्भवति पटपटायति, पटपटायते । एवं दमदमायति, दमदमायते । डाजन्तारक्यविधानात कृम्वस्तिभिरिव क्यापि योगे डान् भवति । अलोहितो लोहितो भवति लोहितायति, लोहितायते । कर्तु रित्येव ? अपटपटा पटपटा करोति, अलोहितं लोहितं करोति । व्यर्थ इत्येव ? लोहितो भवति । लोहित, जिह्म, श्याम, धूम, चर्मन् , हर्ष, गर्व, सुख, दुःख, मूर्छा, निद्रा, कृपा, करुणा। बहुवचनमाकृतिगणार्थम् । लोहितादिषु लोहितशब्दादेवेच्छन्त्यन्ये । षकारः 'क्यङ्गो नवा' (३-३-४३) इति विशेषणार्थः । धूमादीनां स्वतन्त्रार्थवत्तीनां प्रकृतिविकारभावाप्रतीतेश्च्व्यर्थो नास्तीति तद्ववृत्तिभ्यः प्रत्ययो भवति । अधूमवान् धूमवान् भवति धूमायति, धूमायते ॥३०॥ न्या० स०-डाच्लोहिता०-डाजन्तात् क्यविधानादिति-ननु भवत्यर्थविशिष्टे व्यर्थे क्यङले विहितः, ततश्च क्यङषा भवत्यर्थस्योक्तत्वात् तदभावे निमित्ताभावे इति न्यायात् डाचोऽपि निवृत्ति:प्राप्नोति इत्याशङक्याह-डाजन्तात क्यविधानाव-डाच भवतोति-विधानसामर्थ्यात् कृभ्वस्त्यभावे न निवर्त्तते इत्यर्थः, अन्यथा क्यङषा भवत्यर्थस्योक्तत्वाद् भवतियोगाऽभावात् डाच् न स्यात् । बहुवचन मिति-तेनामृतं यस्य विषायतीति सिद्धं, यद्वा विषस्यायो लाभः स इवाचरतीति क्विप् । कष्ट कक्ष-कृच्छ-सत्र-गहनाय पापे क्रमणे ॥ ३. ४.३१॥ कष्टादिभ्यो निर्देशादेव चतुर्थ्यन्तेभ्यः पापे वर्तमानेभ्यः कमणेऽ” क्यङ् प्रत्ययो वा भवति । कष्टाय कर्मणे कामति कष्टायते, एवं कक्षायते, कृच्छायते, सत्रायते,
SR No.034256
Book TitleSiddh Hemhandranushasanam Part 02
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages520
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy