SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ ४८ ] बृहद्वृत्ति-लघुग्याससंवलिते [ पाद- ४, सूत्र - १८-१९ स्वरण, शारण, कुमारण, कलण, शोलण, वेलकालण, पहयूलण, अंशण, पषण, गवेषण, मृषण, रसण, वासण्, निवासण्, चहण्, महण्, रहण्, रहुण, स्पृहण, रूक्षण, मृगणि, अर्थणि, पदणि, संग्रामणि, शूरवीरणि, सत्रणि, स्थूलणि, गर्वणि, गृहणि, कुहणि इति चुरादयः । श्रादन्तवं च सुखादीनां णिच्संनियोगे एव द्रष्टव्यम् तेन णिजभावे जगरणतुः जगणिथेत्यत्र अनेकस्वरत्वाभावादाम् न भवति । अनित्यो हि णिच् चुरादीनाम्, 'घुषेरविशब्दे' ( ४-४-६९) इत्यत्र ज्ञापयिष्यते । बहुवचनमाकृतिगणार्थम् तेन संवाहयतीति सिद्धम् ।। १७ ।। I न्या० स० - चुरादिभ्यो::- चकार इति चकारे तु सति निरनुबन्धस्य णेरभावात् सामान्येन ग्रहणं भवति । ज्ञाण्-मारणादीनां निद्दिष्टार्थानामिह दर्शनमर्थान्तरेऽमीषां तु चुरादिपाठो नेष्यते इति ज्ञापनार्थम् । हन्त्यर्थाश्चेति- सर्वे हन्त्यर्था धातवोऽत्र पठितव्या:, तेन णिज्शवादिकं च कार्यं भवति । सुखादीनामिति अङ्कादीनामिति वक्तव्येङ्कब्लेप्कयोः फलाभावात् सुखादीनामित्युक्तम् । पूर्वाचार्यानुरोधेन त्वऽदंतमध्ये पठति । श्रनेकस्वरत्वाभावादिति - द्वित्वे सत्येकस्वरत्वेऽपि सन्निपातन्यायान्न भवति । संनिपातनिमित्तं ह्यनेकस्वरत्वम् । संवाहयतीति - अङ्गानि मृद्नाति इत्यर्थः । युजादेर्नवा ॥ ३ ४ १८ ॥ चुराद्यन्तर्गणो युजादिः, युजादिभ्यो धातुभ्यः स्वार्थे णिच् प्रत्ययो भवति वा । योजयति, योजति, साहयति, सहति, सहति, कलमेभ्यः, परिभवम् । युजण्, लोण्, मीण्, प्रीग्ण, धूग्ण, वृग्ण, जण्, चीक्, शीकण्, मार्गण्, पृचण्, रिचण्, वचण्, अचिण्, वृजैण, मृण्, कठण्, श्रन्य, ग्रन्थण्, क्रथ, अदिण्, श्रथण् वदिण्, छदण्, आङ: सदण गतौ । छ्दण्, शुन्धिन्, तनूण् उपसर्गाद्देयें, मानण् पूजायाम् तपण, तृपिण्, प्राप्ण्, भिण्, ईरण, मृषिण्, 'शिषण, विपूर्वोऽतिशये' जुषण, घृषण, हिसुण, गर्हण, बहण हति युजादिः ।। १८ ।। " भूङः प्राप्तौ णिङ् ॥ ३. ४. ११ ॥ भुवो धातोः प्राप्तावर्थे वर्तमानात् णिङ् प्रत्ययो वा भवति । भावयते भवते प्राप्नोतीत्यर्थः । भवतीत्येवान्यत्र णिङिति ङकार आत्मनेपदार्थः । मूङ इति ङकारनिर्देशो रिङमावेऽप्यात्मनेपदार्थः । प्राप्त्यभावेऽपि क्वचिदात्मनेपदमिष्यते यथा 'याचितारश्च नः सन्तु, दातारश्च भवामहे । आक्रोष्टारश्च नः सन्तु क्षन्तारश्च भवामहे ॥१॥ इति प्राप्तावपि परस्मैपदमित्यन्ये, सर्वं भवति प्राप्नोतीत्यर्थः, अवकल्कने तु भावयतीत्येव । भूण अवकल्कने इति चुरादौ पाठात् ।। १९ ।।
SR No.034256
Book TitleSiddh Hemhandranushasanam Part 02
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages520
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy