SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ ४४ ] बृहद्वृत्ति-लघुन्याससंवलिते [ पाद- ४, सूत्र - ९ मुख्यो धातुरेव । नामापि धातोः सकाशाद् भवति । उक्तं च- नाम च धातुजमाह । उत्तरार्थमिति यदा तु 'दीर्घश्च्वियङ' ४-३ - १०८ इत्यादि कित्त्वफलं तदा धातुग्रहणमत्रापि सार्थम् । व्यञ्जनादेरेकस्वराट् शृशाऽऽभीक्ष्ण्ये यवा ।। ३. ४.१॥ गुणक्रियाणामधिश्रयणादीनां क्रियान्तराव्यवहितानां साकल्येन संपत्तिः फलातिरेको वा भृशत्वम्, प्रधानक्रियाया विक्लेदादेः क्रियान्तराव्यवधानेनावृत्तिराभीक्ष्ण्यम्, तद्विशिष्टेऽर्थे वर्तमानाद्धातोर्व्यञ्जनादेरेकस्वराद्यङ्प्रत्ययो वा भवति । भृशं पुनःपुनर्वा पचति पापच्यते, जाज्वल्यते, अथाभीक्ष्ण्ययङतस्याभीक्ष्ण्ये द्वित्वं कस्मान्न भवति ? उक्तार्थत्वात् यदा तु भृशार्थयङतादाभीक्ष्ण्यविवक्षा - तदा भवत्येव । पापच्यते पापच्यते इति, तथा भृशार्थयङतादाभीक्ष्ण्ये आभीक्ष्ण्ययङताद्वा भृशार्थे विवक्षिते यदा पश्चमी केवला, तदा सा केवला तदर्थद्योतनेऽसमर्थेति तदर्थद्योतने द्विर्वचनमपेक्षते । पापच्यस्व पापच्यस्वेति धातोरित्येव ? तेन सोपसर्गान्न भवति । भृशं प्राति । व्यञ्जनादेरिति किम् ? भृशमीक्षते । एकस्वरादिति किम् ? भृशं चकास्ति । केचिज्जागर्तरिच्छन्ति - जाजाप्रीयते । सर्वस्माद्धातोरायादिप्रत्ययरहितात्केचिदिच्छन्ति-अवाव्यते, दादरिद्रयते । भृशाभीक्ष्ण्ये इति किम् ? पचति । वेति किम् ? लुनीहि लुनीहीत्येवायं लुनातीत्यादि यथा स्यात् ।। ६ ।। न्या० स० - व्यञ्जनावे ० : -- क्रियान्तराऽव्यवहितानामिति - विरोधिभिर्ग्रामगमनादिभि: अविरोधिभिस्तूच्छ्वासादिभिर्भवत्येव । साकल्येन संपत्तिरिति सामस्त्येन ढौकनमित्यर्थः । फलातिरेको वेति- फलसमाप्तावपि क्रियानुपरतिः । प्रधानक्रियाया इति पचौ विक्लेदः प्रधानक्रिया, तां कश्चित्समाप्य क्रियान्तरमनारभ्य पुनस्तामेव क्रियामारभते तस्याः पुनः पुनर्भाव अभीक्ष्ण्यं तदा भवत्येवेति यदा त्वाभीक्ष्ण्ययङन्ताद् भृशार्थविवक्षा, तदा न द्वित्वं शब्दशक्तिस्वाभाव्यात् तस्यार्थस्य यङव प्रतिपादितत्वात् । किंच भृशत्वं गुणक्रियाणां साकल्येन संपत्तिः, अभीक्ष्ण्यं प्रधानक्रियायाआवृत्तिः, अतः प्रधानक्रियायां गुणक्रिया न्यग्भूतेति । , दामीति तर्हि एतस्यां विवक्षायां पञ्चम्यपि न प्राप्नोति ? न, शब्दशक्तिस्वाभाव्यात्, 'भृशाभीक्ष्ण्ये० ' ५-४-४२ इति पञ्चमी भवत्येव, लुनीहि लुनीहीत्येवायमिति, न च हि-स्वविधानसामर्थ्यादेव तौ भविष्यत इति वाच्यं, स्वराद्यनेकस्वरेभ्यः तयोश्चरितार्थत्वात् तथा यदा भृशं पचति, पचनविशिष्टो भृशार्थो धात्वर्थस्तदा वाक्यार्थमपि वा ग्रहणम्, तर्हि वाक्यार्थमिति कथं नोक्तम् ? सत्यं, यदा पचतिना पाकः, भृशब्देन तु भृशार्थतद वाक्यं सिद्धमिति वाक्यार्थमिति नोक्त पाक्षिकप्राप्तेरप्रधानत्वात् । ननु ' व्यञ्जनादेरेकस्वात्' ३-४-९ इति किमर्थं यत उत्तरसूत्रेऽट्यतिग्रहणात् व्यञ्जनादित्वं सूत्रिमूत्रिग्रहणात् एकस्वरत्वं चात्र लप्स्यते, तस्मादुत्तरसूत्रकरणादिह 'व्यञ्जनादेरेक० ३-४-९ एव भविष्यति ? नैवं, गत्यर्थानां भृशा भीक्ष्ण्येऽर्थे यदि यङ स्यात्तदाऽट्यत्त्यरेव स्यात्, तथा
SR No.034256
Book TitleSiddh Hemhandranushasanam Part 02
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages520
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy