SearchBrowseAboutContactDonate
Page Preview
Page 489
Loading...
Download File
Download File
Page Text
________________ सूत्र-६४१-९५० ] स्वीपज्ञोणादिगणसूत्रविवरणम् [ ४७१ ई-कमि-शमि-समिभ्यो डित ।। ६४१ ॥ एभ्यो डिद् ईम् प्रत्ययो भवति । ईङ च गतौ, ईम् । कमूङ कान्तो, कीम् । शमूच उपशमे, शीम् । षम वैक्लव्ये, सीम्-अभिनयव्याहरणान्येतानि । ईम् शीम्-अव्यक्ते । कोम्-संशयप्रश्नादिषु । सीम्-अमर्ष-पादपूरणयोः ॥ ९४१ ॥ . क्रमि-गमि-क्षमेस्तुमाश्चातः ॥ ९४२ ।। एभ्यः तुम् प्रत्ययो भवति, अकारस्य चाकारो भवति । क्रमू पादविक्षेपे, क्रान्तुंगमनम् । गम्लु गतौ, गान्तुम्-पान्थः । क्षमौषि सहने, क्षान्तुम्-भूमिः । तुमर्थश्च सर्वत्र ।। ९४२॥ गृ-प-दुर्वि-धुर्विभ्यः किम् ।। ६४३॥ एभ्यः क्विप् प्रत्ययो भवति । गश् शब्दे, गी:-वाक् । पृश् पालनपूरणयोः, पू:नगरी । दुवै धुर्वे हिंसायाम् , दूः-देहान्तरवयवः, धूः-शकटाङ्गम् , आदिश्च ।। ६४३ ।। वाारौ। ६४४ ॥ एतौ क्विपप्रत्ययान्तो निपात्येते । वृणोते द्विश्च । वाः-पानीयम् । कर्मणि दश्च धात्वादिः । वृण्वन्ति तामिति द्वाः- द्वारम् । वरणे, इत्यस्य च णिगन्तस्य रूपम् ।।६४४। प्रादतेरर् ॥ ६४५॥ प्रपूर्वाद् अत सातत्यगमने, इत्यस्माद् अर् प्रत्ययो भवति । प्रात:-प्रभातम् ।९४५। सोरतेलु क् च ।। ६४६ ॥ सुपूर्वात् ऋक् गती, इत्यस्माद् अर् प्रत्ययो भवति, पातोश्च लुग् भवति । स्व:स्वर्गः ॥ ९४६ ।। पू-सन्यमिभ्यः पुनसनुतान्ताश्च ।। ६४७॥ पूग्श् पवने, षण् भक्ती, अम गती, इत्येतेभ्यः अर् प्रत्ययो भवति, यथासंख्यं च पुन्, सनुत् , अन्त् इत्यादेशा एषां भवन्ति । पुनः-भूयः । सनुतः-कालवाची । अन्तः-मध्ये ।९४७। चतेरुर ॥१४ ॥ चतेग याचने, इत्यस्माद् उर् प्रत्ययो भवति । चत्वारः-संख्या । चत्वारि, चतस्रः ॥६४८॥ दिवेडिव ॥ १४ ॥ दिवूच क्रीडादौ, इत्यस्माद् डिद् इव् प्रत्ययो भवति । द्यौः-स्वर्गः, अन्तरिक्षं च । दिवौ, दिवः ॥ ९४६ ॥ विशि-विपाशिभ्यां किम् ॥ ९५० ॥
SR No.034256
Book TitleSiddh Hemhandranushasanam Part 02
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages520
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy