SearchBrowseAboutContactDonate
Page Preview
Page 487
Loading...
Download File
Download File
Page Text
________________ सूत्र-९२१-९३० ] स्वोपज्ञोणादिगणसूत्रविवरणम् [४६९ सुवः ॥ ६२१॥ षडौच् प्राणिप्रसवे, इत्यस्माद् णिद् इन् प्रत्ययो भवति । आसावी, आसविष्यमाणः, जनिष्यमाण इत्यर्थः ।। ६२१ ॥ भुवो वा ॥ २२ ॥ भू सत्तायाम् , इत्यास्माद् इन् प्रत्ययो भवति, स च णिद्वा भवति । भविष्यतीति, भावी-कर्मविपाकादिः । भवी-भविष्यन् ।। ६२२ ॥ प्र-प्रतेर्या-बुधिभ्याम् ॥२३॥ प्रपूर्वात् प्रतिपूर्वाच्च यांक प्रापणे, बुधि, मनिच् ज्ञाने, इत्यस्माच्च णिद् इन् प्रत्ययो भवति । प्रयास्यतीति-प्रयायी, प्रतियास्यतीति-प्रतियायी, प्रभोत्स्यत इति प्रबोधी, प्रतिबोधी-बालादिः ॥ ६२३ ।। प्रात् स्थः॥ २४॥ प्रपूर्वात् ष्ठां गति निवृत्ती, इत्यस्माद् णिद् इन् प्रत्ययो भवति । प्रस्थास्यते इति प्रस्थायी-गन्तुमनाः ।। ९२४ ।। परमात् कित् ॥ ६२५॥ परमपूर्वात् तिष्ठतेः किद् इन् प्रत्ययो भवति । परमे पदे तिष्ठतीति परमेष्ठीअहंदादिः । भीरुष्ठानादित्वात् षत्वम् , सप्तम्या अलुप् च ॥ ९२५ ।। पथि-मन्थिभ्याम् ॥ ६२६ ॥ आभ्यां किद् इन् प्रत्ययो भवति । पथे गतौ, पन्थाः-मार्गः, पन्थानौ, पन्थानः, पथिप्रियः । मन्थश् विलोडने, मन्था:-क्षुब्धः, वायुः, वज्रश्च । मन्थानौ, मन्थानः, मथिप्रियः ।। ६२६ ॥ होर्मिन् ॥ ६२७ ॥ हुंक् दातादनयोः, इत्यस्माद् मिन् प्रत्ययो भवति । होमी-ऋत्विक् , घृतं च ।९२७॥ अतभुक्षिनक् ।। १२८॥ ऋक् गतौ, इत्यस्माद् भुक्षिनक् प्रत्ययो भवति । ऋभुक्षा-इन्द्रः । ऋभुक्षाणौ, ऋभुक्षाणः॥ ६२८॥ अदेस्त्रिन ॥ ६२६ ॥ अदंक भक्षणे, इत्यस्मात् त्रिन् प्रत्ययो भवति । अत्रिः ऋषिः ॥ ९२९ ॥ पतेरत्रिन् ।। ६३०॥ पत्लु गती, इत्यस्माद् अत्रिन् प्रत्ययो भवति । पतत्री पक्षी।। ६३० ।।
SR No.034256
Book TitleSiddh Hemhandranushasanam Part 02
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages520
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy