SearchBrowseAboutContactDonate
Page Preview
Page 482
Loading...
Download File
Download File
Page Text
________________ ४६४ ] स्वोपज्ञोणादिगणसूत्रविवरणम् [ सूत्र-८८६-८९४ गम्लु गतो, इत्यस्मात् कतृप्रत्ययो डिद् भवति, द्वे चास्य रूपे भवतः । जगत्स्थावरजङ्गमो लोकः, जगती पृथ्वी ।। ८८५ ।। भातेडवतुः॥८८६॥ भांक् दीप्ती, इत्यस्माद् डिद् अवतुः प्रत्ययो भवति । भवान् । भवन्तौ । भवन्तः । उकारो दीर्घत्वादिकार्यार्थः ।। ८८६ ।। ह-स-रुहि-युषि-तडिभ्य इत् ॥ ८८७ ॥ एभ्यः इत्प्रत्ययो भवति । हग हरणे, हरित्-हरितो वर्णः, ककुप् , वायुः, मृगजातिः, अश्वः, सूर्यश्च । सृ गती, सरित-नदी। रुहं जन्मनि, रोहित-वीरुत्प्रकारः, मत्स्यः, सूर्यः, अग्निः, मृगः, वर्णश्च । युषः सौत्रः, योषति-गच्छति पुरुषमिति योषित स्त्री । तडण् आघाते, तडित्-विद्युत् ।। ८८७ ।। उदकाच्छ्वे र्डित् ॥ ८८८॥ उदकपूर्वात्-ट्वोश्वि गति-वृद्धयोः, इत्यस्माद् डिद् इत्प्रत्ययो भवति । उदकेन श्वयति उदश्वित्-तक्रम् । 'नाम्न्युत्तरपदस्य च' इति उदकस्य उदभावः ।। ८८८।। म्र उत् ॥ ८८६ ॥ मृत प्राणत्यागे, इत्यस्माद् उत् प्रत्ययो भवति । मरुत् वायुः, देवः, गिरिशिखरं च ॥८६॥ ग्रो मादिर्वा ॥८६॥ गत् निगरणे, इत्यस्माद् उत् प्रत्ययो भवति, स च मकारादिर्वा भवति । गर्मुत्गरुडः, आदित्यः, मधुमक्षिका, तक्षा, तृणं, सुवर्ण च । गरुत्-बहः, अजगरः, मरकतमणिः, वेगः, तेजसां वर्तिश्च ॥ ८६० ॥ शकेऋत् ॥ ८६१ ॥ शक्लट् शक्ती, इत्यस्माद् ऋत्प्रत्ययो भवति । शकृत्-पुरीषम् ।। ८६१ ।। यजेः क च ॥ ८६२॥ यजी देवपूजादौ, इत्यस्माद् ऋत् प्रत्ययो भवति, कश्चान्तादेशो भवति । यकृत्अन्त्रम् ॥ ८९२ ॥ पातेः कृथ् ॥ ८६३॥ पांक रक्षणे, इत्यस्मात् किद् ऋथ् प्रत्ययो भवति । पृथो नाम क्षत्रियाः । ८९३ । श-द-भसेरद् ॥ ८६४ ॥ एभ्योऽद्प्रत्ययो भवति । शृश् हिंसायाम् , शरद्-ऋतुः। दृ भये, दरत-जनपद
SR No.034256
Book TitleSiddh Hemhandranushasanam Part 02
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages520
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy