________________
सूत्र - ८४२ - ८५० ]
स्वोपज्ञोणादिगणसूत्र विवरणम्
[ ४५६
धृषेदिधिष - दिधीषौ च ॥ ८४२ ॥
ञिधृषाट् प्रागल्भ्ये, इत्यस्माद् ऊः प्रत्ययो भवति, दिधिषु दिघीष् इत्यादेशौ चास्य भवतः । दिधिषूः - ज्यायस्याः पूर्वपरिणीता, पुंश्चली च । दिघीषूः ऊढायाः, कनिष्ठाया ज्येष्ठा, पुनर्भू : आहुतिश्च ।। ८४२ ।।
अनूढा,
भ्रमि-गम-तनिभ्यो डित् ॥ ८४३ ॥
एभ्यो डिद् ऊः प्रत्ययो भवति । भ्रमूच् अनवस्थाने, भ्रूः - अक्ष्णोरुपरि रोमराजि: । गम्लृ गतौ, अग्रे गच्छत्यग्रेगः - पुरस्सरः । तनूयी विस्तारे, कुत्सितं तन्यते कुतः - चर्ममयमावपनम् ।। ८४३ ।।
नृति-मृधि-रुषि-कुहिभ्यः कित् ॥ ८४४ ॥
एम्य: कि ऊः प्रत्ययो भवति । नृतैच् नर्तने, नृतुः- नर्तकः, कृमिजातिः, प्लव:, प्रतिकृतिश्च । शृघूङ शब्दकुत्सायाम्, शृषः - शर्धनः, कृमिजातिः, अपानं, बलिश्च दानवः । रुषंच् रोषे, रुषः - भर्त्सकः । कुहणि विस्मापने, कुहूः- अमावास्या ।। ८४४ ।।
तृ-खडिभ्यां डूः ॥ ८४५ ॥
आभ्यां डूः प्रत्ययो भवति । तू प्लवनतरणयोः, तङू :- द्रोणी, प्लवः, परिवेषणभाण्डं च । खडण् भेदे, खड्डूः - बालानामुपकरणम्, स्त्रीणां पादाङ गुष्ठाभरणं च ।।८५४ ।।
तृ-दृभ्यां दुः ॥ ८४६ ॥
आभ्यां दुः प्रत्ययो भवति । तु प्लवनतरणयोः, तद् :- दर्वी । दृश् विदारणे, दर्दू :कुष्ठभेदः ।। ८४६ ।।
।। ८४८ ।।
कमि-जनिभ्यां बूः ॥ ८४७ ॥
प्रत्ययो भवति । कमूङ कान्ती, कम्बू :- भूषणम्, आदर्शत्सरुः, कुरुविग्दश्च । जनैचि प्रादुर्भावे, जम्बू :- वृक्षविशेषः ।। ८४७ ।।
शकेन्धूः ॥ ८४८ ॥
शक्लृट् शक्ती, इत्यस्मादन्धूः प्रत्ययो भवति । शकन्धूः- वनस्पतिः, देवताविशेषश्च
कृगः कादिः ॥ ८४६ ॥
डुकृग् करणे, इत्यस्मात् ककारादिरन्धूः प्रत्ययो भवति । कर्कन्धूः- बदरी, व्रणं, यवलाजाः, मधुपर्कः, विष्टम्भश्च ।। ८४६ ॥
ः ॥ ८५० ॥
युक् मिश्रणे, इत्यस्माद् आगूः प्रत्ययो भवति । यवागूः- द्रवौदनः ।। ८५० ।।