SearchBrowseAboutContactDonate
Page Preview
Page 473
Loading...
Download File
Download File
Page Text
________________ सूत्र-८०५-८१३ ] स्वोपज्ञोणादिगणसूत्रविवरणम् ४५५ मुस्त्युक् ॥ ८०५॥ मृत् प्राणत्यागे, इत्यस्मात् कित् त्युः प्रत्ययो भवति । मारयतीति मृत्युः, कालः, मरणं च ।। ८०५॥ चि-नी-पी-म्यशिभ्यो रुः ॥८०६॥ एम्यो रुः प्रत्ययो भवति । चिन्ट चयने, चेरुः मुनिः। णींग प्रापणे, नेरुः-जनपदः । पीङच पाने, पेरुः-सूर्यः, गिरिः-कलविङ्कश्च । मीङ च हिंसायाम् , मेरु:-देवाद्रिः । अशौटि व्याप्ती, अश्रु-नेत्रजलम् ।। ८०६ ॥ रु-पूभ्यां कित् ॥ ८०७॥ आभ्यां किद् रुः प्रत्ययो भवति । रुक् शब्दे । रुरु:-मृगजातिः। पूग्श् पवने, पुरु:राजा ॥८०७ ॥ खनो लुक् च ।। ८०८॥ खनूग् अवदारणे, इत्यस्माद् रुः प्रत्ययो भवति, अन्त्यस्य च लुग् भवति । खरु:दर्पः क्रूरः, मूर्खः दृप्तः, गीतविशेषश्च ।। ८०८ । जनि-हनि-शद्यस्ति च ॥८०६॥ एभ्यो रुः प्रत्ययो भवति, तकारश्चान्तादेशो भवति । जनैचि प्रादुर्भावे, जत्रु:शरीरावयवः, मेघः, धर्मावसानं च । हनक हिंसागत्योः हत्रुः-हिस्रः । शद्ल शातने, शत्रु:रिपुः । बाहुलकात् तादेशविकल्पे शद्रुः-पुरुषः । ऋक् गतो, अत्रु:-क्षुद्रजन्तुः ।। ८०९ ॥ श्मनः शीडो डित् ॥ ८१० ।। श्मन्पूर्वात् शीङ क् स्वप्ने, इत्यस्माद् डिद् रुः प्रत्ययो भवति । श्मश्रु-मुखलोमानि ।। ८१०॥ शिग्रु-गेरु-नमेादयः ॥ ८११ ॥ शिग्वादयः शब्दा रुप्रत्ययान्ता निपात्यन्ते । शिंग्ट् निशाने, कित् गोऽन्तश्च । शिग्रुः सौभाञ्ज,-नक: हरितकविशेषश्च । गिरतेरेच्च, गेरुः-धातुः। नमेनपूर्वस्य मयतेर्वा एच्चान्तः, नमेरुः-देववृक्षः । आदिग्रहणादन्येऽपि ॥ ११ ॥ कटि-कुट्यतररुः ॥८१२॥ एभ्योऽरुः प्रत्ययो भवति । कटे वर्षावरणयोः, कटरु:-शकटम् । कुटत् कौटिल्ये, कुटरुः-पक्षिविशेषः, मर्कटः, वृक्षः, वर्धकिश्च । कुटादित्वान्न गुणः । ऋक् गतौ, अररु:असुरः, आयुधं, मण्डलं च ।। ८१२॥ करारुः ॥ ८१३॥ कर्के सौत्रादारुः प्रत्ययो भवति । कर्कारु:-क्षुद्रचिर्भटी ।। ८१३ ।।
SR No.034256
Book TitleSiddh Hemhandranushasanam Part 02
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages520
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy