SearchBrowseAboutContactDonate
Page Preview
Page 462
Loading...
Download File
Download File
Page Text
________________ ४४४ ] स्वोपज्ञोणादिगण मूत्रविवरणम् [ सूत्र - ७१७ ७२५ बन्धुः - स्वजन, बन्धु - द्रव्यम् । अण शब्दे, अणु:- पुद्गलः, सूक्ष्मः, रालकादिश्च धान्यविशेषः । लोष्टि संघाते, लोष्टुः- मृत्पिण्डः । कुन्थश् संक्लेशे । कुन्थुः - सूक्ष्मजन्तुः ।। ७१६ ।। स्यन्दि-सृजिभ्यां सिन्धू- रज्जौ च ॥ ७१७ ॥ आभ्याम् उः प्रत्ययो भवत्यनयोश्च यथासंख्यं सिन्धु रज्ज इत्यादेशौ भवतः । स्यन्दौङ स्रवणे सिन्धुः-नदः, नदी, समुद्रश्च । सृजत् विसर्गे, सृजिच् विसर्गे वा रज्जुः- दवरकः ।। ७१७ ॥ पंसेर्दीर्घश्च ॥ ७१८ ॥ पसुण् नाशने, इत्यस्माद् उः प्रत्ययो भवति, दीर्घश्चास्य भवति । पांशु: - पार्थिवं रजः ।। ७१८ ॥ अशेरानोऽन्तश्व || ७१६ ॥ अशौटि व्याप्ती, इत्यस्माद् उः प्रत्ययो भवत्यकाराच्च परो नोऽन्तो भवति । अंशु:रश्मिः, सूर्यश्च । प्रांशुः - दीर्घः ।। ७१ ।। नमेर्नाक् च ॥ ७२० ॥ मं प्रह्वत्वे इत्यस्माद् उः प्रत्ययो भवत्यस्य च नाक् इत्यादेशो भवति । नाकु:व्यलीकम्, वनस्पतिः, ऋषिः, वल्मीकश्च ।। ७२० ।। मनि-जनिभ्यां धतौ च ॥ ७२१ ॥ आभ्याम् उः प्रत्ययो भवत्यनयोश्च यथासंख्यं धकार-तकारौ भवतः । मनिच् ज्ञाने, मधु क्षौद्रम्, शीधु च मधुः - असुर, मासश्च चैत्रः । जनैचि प्रादुर्भावे, जतु-लाक्षा ।। ७२१ ।। अजे ज् च ।। ७२२ ॥ अर्ज अर्जने, इत्यस्माद् उः प्रत्ययो भवत्यस्य च ऋज् इत्यादेशो भवति । ऋजुअकुटिलम् ।। ७२२ । कृतेस्तर्क ्म च ।। ७२३ ।। कृतैत् छेदने, कृतै वेष्टने, इत्यस्माद्वा उः प्रत्ययो भवति, अस्य च तर्क भवति । तर्क :- चुन्दः सूत्रवेष्टनशलाका च ।। ७२३ ॥ इत्यादेशो नेरञ्चेः ।। ७२४ ।। निपूर्वादञ्चते: उ: प्रत्ययो भवति । न्यङ कु:- मृगः, ऋषिश्च ।। ७२४ ।। किमः श्रोणित् ।। ७२५ ।। किम्पुर्वात् शृश् हिंसायाम्, इत्यस्माद् णिद् उः प्रत्ययो भवति । किशारुः- शुकः धान्यशिखा, उष्ट्र: हिस्रः इषुश्च ।। ७२५ ।
SR No.034256
Book TitleSiddh Hemhandranushasanam Part 02
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages520
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy