SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ सूत्र-६८१-६६० ] स्वोपज्ञोणादिगणसूत्रविवरणम् [४३९ रज्जेः कित् ॥ ६८१॥ रञ्जी रागे, इत्यस्मात् किद् अनिः प्रत्ययो भवति । रजनिः-रात्रिः ।। ६८१ ।। अतरत्निः ॥ ६८२॥ ऋक् गती, इत्यस्माद् अत्निः प्रत्ययो भवति । अरलिः- बाहुमध्यम् शमः, उत्कनिष्ठश्च हस्तः ॥ ६८२॥ एघेरिनिः॥ ६८३॥ एघि वृद्धी, इत्यस्माद् इनिः प्रत्ययो भवति । एधिनिः-मेदिनी ॥ ६८३ ॥ शकेरुनिः॥ ६८४॥ शक्लृट् शक्ती, इत्यस्माद् उनिःप्रत्ययो भवति । शकुनि:-पक्षी ।। ६८४ ।। अदेमेनिः ॥ ६८५॥ अदंक भक्षणे, इत्यस्माद् मनिः प्रत्ययो भवति । अनिः-पशूनां भक्षणद्रोणी, अग्निः, जयः, हस्ती, अश्वः, तालु च ।। ६८५ ॥ . दमे भिदुम् च ॥ ६८६ ।। दमूच् उपशमे, इत्यस्माद् दुभिः प्रत्ययो भवत्यस्य च दुमित्यादेशो भवति । दुन्दुभिः-देवतूर्यम् ।। ६८६ ।। नी-सा-वृ-यु--बलि-दलिभ्यो मिः ॥ ६८७ ॥ एभ्यो मिः प्रत्ययो भवति । णोंग प्रापणे, नेमिः-चक्रधारा। षोंच अन्तकर्मणि, सामि-अर्धवाचि अव्ययम् । वृग्ट् वरणे, वमिः-वल्मीककृमिः। युक् मिश्रणे, योमिःशकुनिः। शृश् हिंसायाम् , शमिः-मृगः। वलि संवरणे, वल्मिः-इन्द्रः, समुद्रश्च । दल विशरणे, दल्मिः -आयुधम् , इन्द्रः, समुद्रः, शकः, विषं च ।। ६८७ ।। अशो रश्चादिः॥ ६८८॥ अशौटि व्याप्ती, इत्यस्माद् मिः प्रत्ययो भवति, रेफश्च धातोरादिर्भवति । रश्मिःप्रग्रहः, मयूखश्च ।। ६८८॥ . . . . . ... सतरुच्चातः ॥ ६८६ ।। आभ्यां मिः प्रत्ययो भवति, गुणे च कृतेऽकारस्योकारो भवति । सृगतो, सूमिःस्थूणा । ऋक् गतो, ऊर्मिः-तरङ्गः ।। ६८९ ॥ कृ-भूभ्यां कित् ॥ ६६० ॥ आभ्यां किद् मिः प्रत्ययो भवति । डुकृग् करणे, कृमि:-क्षुद्रजन्तुजातिः । भू सत्तायाम् , भूमिः-वसुधा ।। ६६०॥ . . . .
SR No.034256
Book TitleSiddh Hemhandranushasanam Part 02
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages520
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy