SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ ४३६.] - स्वोपज्ञोणादिगणसूत्रविवरणम् [ सूत्र - ६५३-६६० आभ्यां कि तिः प्रत्ययो भवति नकारश्चान्तो भवति । कुङ शब्दे, कुन्तिः- राजा, कुन्तयः - जनपदः । चिग्ट् चयने, चिन्तिः- राजा ।। ६५२ ।। खल्यमि-रमि-वहि-वस्यर्तेरतिः ॥ ६५३ ॥ एभ्योऽतिः प्रत्ययो भवति । खल संचये च खलति :- खल्वाटः । अम् गतौ, अमतिः- चातकः, छागः, प्रावृट्, मार्गः, व्याधिः, गतिश्च । रमिं क्रीडायाम्, रमतिःक्रीडा, काम:, स्वर्गः, स्वभावश्च । वहीं प्रापणे, वहतिः- गौः, वायुः, अमात्यः, अपत्यं, कुटुम्बं च । वसं निवासे, वसतिः - निवासः, ग्रामसंनिवेशश्च । ऋक् गतौ, अरति:- वायुः, सरणम्, असुखं क्रोधः, वर्म च ।। ६५३ । हन्तेरह च ॥ ६५४ ॥ हन हिंसागत्योः, इत्यस्मादति: प्रत्ययो भवत्यस्य च अंह, इत्यादेशो भवति । अंहतिः - व्याधिः पन्थाः कालः, रथश्च ।। ६५४ ।। वृगो व्रत् च ॥ ६५५ ॥ वृग्ट् वरणे, इत्यस्माद् अतिः प्रत्ययो भवत्यस्य च व्रत् इत्यादेशो भवति । व्रततिः- वल्ली ॥। ६५५ ।। अञ्चैः क च वा ॥ ६५६ ॥ अञ्च गतौ चेत्यस्माद् अतिः प्रत्ययो भवत्यस्य च क् इत्यन्तादेशो वा भवति । अङ्कतिः- वायुः, अग्निः प्रजापतिश्च । अञ्चतिः - अग्निः ।। ६५६ ।। : वातेणिंद्वा ॥ ६५७ ॥ वां गतिगन्धनयो:, इत्यस्माद् अतिः प्रत्ययो भवति, स च णिद् वा भवति । वायतिः - वातः, वातिः - गन्धमिश्रपवनः ।। ६५७ ।। योः कित् ।। ६५८ || युक् मिश्रणे, इत्यस्माद् अति: प्रत्ययः किद् भवति । युवतिः तरुणी ॥ ६५८ ॥ पार्वा ।। ६५६ || पां रक्षणे, इत्यस्माद् अतिः प्रत्ययः स च किद्वा भवति । पतिः भर्ता, पाति:भर्ता, रक्षिता, प्रभुश्च ।। ६५९ ।। अगि विलि-पुलि-चिपेरस्तिक् ।। ६६० ॥ एभ्यः किदु अस्तिः प्रत्ययो भवति । अग कुटिलायां गतौ, अगस्तिः । विलत् वरणे, विलस्तिः । पुल महत्त्वे पुलस्तिः । क्षिपत् प्रेरणे, क्षिपस्तिः । एते लौकिका ऋषयः । अगस्तिः- वृक्षजातिश्च ।। ६६० ।।
SR No.034256
Book TitleSiddh Hemhandranushasanam Part 02
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages520
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy