SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ . ४३४ ] स्वोपज्ञोणादिगणसूत्र विवरणम् [ सूत्र- ६३६-६४३ पृषि - हृषिभ्यां वृद्धिश्व ॥ ६३६ ॥ आभ्यां णिः प्रत्ययो नयोश्च वृद्धिर्भवति । पृषू सेचने, पाणि:- पादपश्चाद्भागा, पृष्ठप्रदेशश्च । हृषंच् तुष्टी, हाष्णिः - हरणम् ।। ६३६ ।। हूर्णि:-धूर्णि भूर्णि धूर्यादयः ॥ ६३७ ॥ एते प्रत्ययान्ता निपात्यन्ते । हृग् हरणे, घुंग् धारणे, भू सत्तायाम् घृ सेचने, ऊत्वं रश्चान्तो निपात्यते । हूणिः कुल्या । घूणिः धृतिः । भूणिः - चेतनं, भूमिः, कालश्च । घूर्णि:- :- भ्रमः । आदिग्रहणादन्येऽपि ।। ६३७ ।। ऋ-हृ-सृ-मृ-धृ-भृ-कृ-तु-ग्रहेरणिः ॥ ६३८ ॥ rsfr: प्रत्ययो भवति । ऋक् गतौ, अरणिः अग्निमन्थनकाष्ठम् । हृग् हरणे, हरणि:- कुल्या, मृत्युश्च । सृ गतौ, सरणिः - ईषद् गतिः पन्थाः, आदित्यः, शिरा, संघातश्च । मृत् प्राणत्यागे, मरणिः- रात्रिः । धृग् धारणे, धरणिः क्षितिः । टुडुभृ ंग्क् पोपणे च, भरणि:नक्षत्रम् | डुकु ग् करणे, करणि:- सादृश्यम् । तू प्लवन-तरणयो:, तरणि:- संक्रमः, आदित्यः, यवागूः, पतितगोरूपोत्थापनी च यष्टिः । वै दुःखार्थः, दुःखेन तीर्यत इति, वैतरणीनदी । ग्रहीश् उपादाने, ग्रहणिः- जठराग्निः, तदाघारो व्याधिः, मेढ्र, मृत्युश्च ।। ६३८ ॥ - कङ्केरिच्चास्य वा || ६३६ ॥ ककुङ गतौ, इत्यस्माद् अणिः प्रत्ययो भवति, धातोरस्य चेकारो वा भवति । कङ्कणिः, कङ्कणम्, किङ्कणिः - घण्टा ।। ६३६ ।। कर्णित् ॥ ६४० ॥ afe लौल्ये, इत्यस्माद् द् िअणिः प्रत्ययो भवति । काकणिः -मानविशेषः | ६४० । कृषेश्व चादेः ॥ ६४१ ॥ कृषीत् विलेखने, इत्यस्माद् अणिः प्रत्ययो भवत्यादेश्च चकारो भवति । चर्षणिःचमूः, अग्निः, बुद्धि:, व्यवसायः, वेश्या, वृषश्च ।। ६४१ ।। क्षिपेः कित् || ६४२ ॥ क्षिपत् प्रेरणे, इत्यस्मात् किद् अणिः प्रत्ययो भवति । क्षिपणिः- आयुधं, बडिश - बन्धकः, कर्मकृता पाषाणसर्जनी च ।। ६४२ ।। आङः -कृ-हृ-शुषेः-सनः ॥ ६४३ ॥ आङः परेभ्यो डुकृग् करणे, हृांग् हरणे, शुषंच शोषणे, इत्येतेभ्यः सन्नन्तेभ्योऽणिः प्रत्ययो भवति । आचिकार्षणिः - व्यवसायः । आजिहीर्षणिः श्रीः । आशुशुक्षणि:- अग्निः, वायुश्च ।। ६४३ ॥
SR No.034256
Book TitleSiddh Hemhandranushasanam Part 02
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages520
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy