SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ पाद-३, सूत्र-७५-७६ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः । [२७ र्थ्यात् भवति, यथा कुस्मि-चित्रङ्-महीङ्-हणीङामनुबन्धो णिच्-क्यन्-यगन्तसमुदायार्थःविकुस्मयते, चित्रीयते, महीयते, हृणीयते । अवयवे वा कृतं लिङ्ग समुदायस्य विशेषक भवति, यद्येवं तितिक्षयति, जुगुप्सयति, मीमांसयतीत्यत्रापि प्राप्नोति ? नवं, अवयवे कृतं लिङ्ग तस्यैव समुदायस्य विशेषकं भवति यं समुदायं सोऽवयवो न व्यभिचरति, यथा-गोः सक्थनि कर्णे वा कृतं लिङ्ग-चिह्न गोरेव विशेषकं भवति, न गोमण्डलस्य, सन्नन्तं च समुदायं तिजादयोऽर्थविशेषेषु न व्यभिचरन्ति, णिगन्तं पुनर्व्यभिचरन्ति । ननु सन्नन्तमपि व्यभिचरन्ति-तेजर्यात, गोपायति, मानयतीति ? नैवम् ,-अर्थविशेषेषु न व्यभिचार इत्युक्तत्वात् । “गूप-तिजो गाँ-क्षान्तो"[ ३.४. ६ ] 'शान-दान-मान-बधान्निशानाऽऽर्जवविचार-वैरूप्ये'' [ ३. ४. ६ ] इति हि वक्ष्यत इति ।। ७४ ॥ न्या० स०-प्राग्वत्-अनबन्धादिनिमित्तम्पीति-आदिपदात् 'गन्धनावक्षेप०' ३-२-७६ इत्यादिना कृगो धातोर्गंधनाद्यर्थनिमित्तं 'परानोः कृगः' ३-३-१०१ इत्यादि-विशेषविधानबाधितं सत् , प्राग् न दृष्टं तदपि नातिऽदिश्यते । सन्नन्तसमुदायार्थ मेवेति-अर्थ विशेषेषु इदमेव फलमन्यत्र त्वनाद्यपीति एवकारार्थः । अनुबन्धविधानमिति-न च वाच्यं क्षान्त्याद्यर्थाभावे अनुबन्धादात्मनेपदं भविष्यतीति, एषामर्थान्तरेपि त्यादयो नाभिधीयन्ते इति भणनात् 'इडितो व्यञ्जनाद्य०' ५-२-४४ इत्यादौ चरितार्थमिति चेत् ? न, तदा 'भूषाक्रोध०' ५.२-४२ इत्यादौ स्वरूपेण ग्रहणं कुर्यात् किं व्याप्तिपरेणानुबन्धेन । अवयवे वा कृतमिति-भवत्वनप्रत्ययेऽनुबन्धस्य चरितार्थत्वं तथाप्यात्मनेपदं भवती. त्यभ्युपगम्यमाह। आमः कृगः॥ ३. ३.७५ ॥ आमः परादनुप्रयुज्यमानात करोतेराम एव प्राग यो धातुस्तस्मादिव कर्तर्यात्मनेपदं भवति । भवति न भवति चेति विधि-प्रतिषेधावतिदिश्येते, यथा- उशीनरवन्मद्रेषु यवाः सन्ति न सन्तीति । 'ईहांचके ईक्षांचक्रे' इत्यफलवत्यपि भवति, “बिभयांचकार, जागरांचकार' इति फलवत्यपि न भवति । यत्र तु पूर्वस्मादुभयं तत्र फलवत्यफलवति चोभयं भवतिबिभरांचके, बिभरांचकार; पाचयांचके, पाचयांचकार । कृग इति किम् ? करोतेरेव यथा स्यादिह मा भूत-ईक्षामास, ईक्षांबभूव ।। ७५ ॥ गन्धनाऽवक्षेप-सेवा-साहस-प्रतियत्न-प्रकथनोपयोगे॥३. ३.७६॥ गन्धनादिष्वर्थेषु वर्तमानात करोतेः कर्तयात्मनेपदं भवति । गन्धनं-द्रोहाभिप्रायेण परदोषोद्घाटनम् , प्रोत्साहनादिकमन्ये । उत्कुरुते, उदाकुरुते माम् , अध्याकुरुते जिघांसुः, अपकत्रै कथयतीत्यर्थः । अवक्षेपणं अवक्षेपः, कुत्सनं भर्त्सनं वा, दुर्वृत्तानवकुरुते, कुत्सयतीत्यर्थः; श्येनो वर्तिकामपकुरुते, भर्त्सयतीत्यर्थः । सेवा-अनुवृत्तिः, महामात्रानुपकुरुते, सेवते इत्यर्थः । साहसम्-अविमृश्य प्रवृत्तिः, परदारान् प्रकुरुते, विनिपातमविभाव्य तान् अभिगच्छतीत्यर्थः । प्रतियत्नः-सतो गुणान्तराधानम् , एधोदकस्योपस्कुरुते, तत्र गुणान्तरमादधातीत्यर्थः । प्रकथनं-कथनप्रारम्भः प्रकर्षेण कथनं वा, जनवादान् प्रकुरुते, कथयितुमारभते,
SR No.034256
Book TitleSiddh Hemhandranushasanam Part 02
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages520
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy