SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ सूत्र-५७३-५८३ ] स्वोपज्ञोणादिगणसूत्रविवरणम् [ ४२५ फनस-तामरसादयः॥ ५७३ ।। फनासादयः शब्दा असप्रत्ययान्ता निपात्यन्ते । फण गती नश्च, फनसः पनसः । तमेररोऽन्तो वृद्धिश्च, तामरसं-पद्मम् । आदिग्रहणात् कीकस-बुक्कसादयो भवन्ति ।।५७३।। यु-बलिभ्यामासः ॥ ५७४ ।। आभ्याम् आसः प्रत्ययो भवति । युक् मिश्रणे, यवासः-दुरालभा । बल प्राणनधान्यावरोधयोः, बलास:-श्लेष्मा ।। ५७४ ।। . किलेः कित् ॥ ५७५ ॥ किलत् श्वैत्य-क्रीडनयोः, इत्यस्मात् किद् आसः प्रत्ययो भवति । किलासं-सिध्मम् , किलासी-पाक-कर्परम् ।। ५७५ ।। तलि-कसिभ्यामीसण ॥ ५७६ ॥ आभ्याम् ईसण् प्रत्ययो भवति । तलण् प्रतिष्ठायाम् , तालीसं-गन्धद्रव्यम् । कस गतो, कासोसं-घातुजमौषधम् ॥ ५७६ ॥ सेर्डित् ॥ ५७७ ॥ पिंग्ट् बन्धने, इत्यस्मात् डिद् ईसण् प्रत्ययो भवति । सीसं-लौहजातिः ।। ५७७ ।। त्रपेरुसः॥ ५७८॥.. त्रपौषि लज्जायाम् , इत्यस्माद् उसः प्रत्ययो भवति । त्रपुसं-कर्कटिका। विधानसामर्थ्यात् षत्वाभावः ॥ ५७८ ।। पटि-वीभ्यां-टिस-डिसौ ॥ ५७६ ॥ आभ्यां यथासंख्यं टिसो डिद् इसश्च प्रत्ययो भवति । पट गतौ, पट्टिस:-आयुधविशेषः । वींक प्रजनादौ, बिसं मृणालम् ॥५७६ ।। तसः॥ ५८०॥ पटि वीभ्यां तस: प्रत्ययो भवति । पट्टसः-त्रिशूलम् । वेतसः वानीरः ।। ५८० ।। इणः॥ ५८१॥ एतेस्तसः प्रत्ययो भवति । एतसः-अध्वर्युः ।। ५८१॥ पीङो नसक् ॥ ५८२॥ पीङ च् पाने, इत्यस्मात् किन्नसः प्रत्ययो भवति । पीनसः-श्लेष्मा ।। ५८२ ।। कृ-कुरिभ्यां पासः ॥ ५८३ ॥ आभ्यां पासः प्रत्ययो भवति । डुकृग् करणे, कर्पासः-पिचुप्रकृतिः, वीरुच्च । कुरत् शब्दे, कूर्पास:-कञ्चुक: ।। ५८३ ॥
SR No.034256
Book TitleSiddh Hemhandranushasanam Part 02
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages520
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy