SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ सूत्र-३५५-३६२ ] स्वोपज्ञोणादिगणसूत्रविवरणम् [३९१ दो डिमः ॥ ३५५ ॥ दांम् दाने, इत्यस्मात् डिमः प्रत्ययो भवति । दाडिम: दाडिमी वा-वृक्षजातिः।३५५। डिमेः कित् ।। ३५६ ॥ डिमेः सौत्रात् कित् डितः प्रत्ययो भवति । डिण्डिमः-वाद्यविशेषः ॥ ३५६ ।। स्था-छा-मा-सा-सू-मन्यनि कनि-पसि-पलि-कलि-शलि-शकीयि-सहि-बन्धि भ्यो यः॥३५७॥ एभ्योः यः प्रत्ययो भवति । ष्ठां गतिनिवृत्ती, स्थायः- स्थानम् , स्थाया-भूमिः । दो छोंच छेदने, छाया-तमः, प्रतिरूपम्, कान्तिश्च । मांक माने, माया-छद्म, दिव्यानुभावदर्शनं च । षौंच अन्तकर्मणि, सायं दिनावसानम् । षूत प्रेरणे, सव्य:-वामः, दक्षिणश्च । मनिंच ज्ञाने, मन्या-धमनिः । अनक प्राणने, अन्यः-परः। कनै दीप्त्यादिषु, कन्या कुमारी षसक स्वप्ने, सस्य-क्षेत्रस्थं गोधूमादि । पल गतो, पल्य:-कटकुसूलः । कलि शब्दसंख्यानयोः, कल्यः-नीरोगः । पल फल शल गतौ, सल्यमन्तर्गतं लोहादि शक्लट् शक्ती-शक्यम्असारम् । ईष्यिर्थिः , ईय॑ति ईय॑णं वा ईर्ष्या-मात्सर्यम् । षहि मर्षणे, सह्यः-पश्चादर्णवपार्श्वशैलः । बन्धश् बन्धने, वन्ध्या-अप्रसूतिः ।। ३५७ ॥ नञो हलि-पतेः ।। ३५८ ॥ नपूर्वाभ्यामाभ्यां यः प्रत्ययो भवति । हल विलेखने, अहल्या-गौतमपत्नी । पत्लु गतो, अपत्यं-पुत्रसंतानः ।। ३५८ ।। सजेधूच ॥ ३५६ ॥ षजं सङगे इत्यस्माद् यः प्रत्ययो भवति, धकारश्चान्तादेशो भवति । संध्या. दिननिशान्तरम् ॥ ३५९ ॥ मृशी-पसि-वस्यमिभ्यस्तादिः ॥ ३६० ॥ एभ्यस्तकारादियः प्रत्ययो भवति । मृत् प्राणत्यागे मर्त्यः-मनुष्यः । शीङ क् स्वप्ने, शैत्य:-शकुनिः, संवत्सरः, अजगरश्च । पसि निवासे, सौत्रो दन्त्यान्तः, पस्त्यंगृहम् । वसं निवासे, वस्त्यः-गुरुः । अनक् प्राणने, अन्त्यः-निरवसितः, चण्डालादिश्च ॥ ३६० ॥ ऋशि-जनि-पुणि-कृतिभ्यः कित् ।। ३६१ ।। एभ्यः किद् यः प्रत्ययो भवति । ऋश् गतौ स्तुती वा स्वरादिस्तालव्यान्तः, ऋश्य:-मृगजातिः । जनैचि प्रादुर्भावे, जन्यं-संग्रामः। जाया-पत्नी, 'ये नवा' इत्यात्वम् । पुणत् शुभे, पुण्यं सत्कर्म । कृतैत् छेदने, कृन्ततीति कृत्या-दुर्गा ।। ३६१ ।। कुलेड च वा ॥ ३६२ ॥
SR No.034256
Book TitleSiddh Hemhandranushasanam Part 02
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages520
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy