SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ सूत्र- ३२८-३३६ ] स्वोपज्ञोणादिगणसूत्र विवरणम् [ ३८७ नुनाद: । जनैचि प्रादुर्भावे, जम्भ:- दानवः, दन्तश्च, जम्भा - मुखविदारणम् । ऋक् गतो, अर्भ: - शिशुः । दलण् विदारणे, दल्भः ऋषिः, वल्कलं, विदारणं च ॥ ३२७ ।। इणः कित् ॥ ३२८ ॥ sue गती, इत्यस्मात् किद् भः प्रत्ययो भवति । इभः - हस्ती ॥ ३२८ ॥ कृ-श-गृ-शलि-कलि-कडि-गर्दि - रसि-रमि- वडि वल्लेरभः ॥ ३२६ ॥ एभ्यः अभः प्रत्ययो भवति । कृत् विक्षेपे, करभः - त्रिवर्ष उष्ट्रः । शूश् हिंसायाम्, शरभः-श्वापदविशेषः । गृत् निगरणे, गरभ:- उदरस्थो जन्तुः । पल - फल-शल-गती, शलभः–पतङ्गः । कलि शब्दसंख्यानयोः, कलभः हस्ती यौवनाभिमुखः । कडत्-मदे, - हस्तिपोतकः । गर्द शब्दे, गर्दभः खरः । रासृङ् शब्दे, रासभः स एव । रमिं क्रीडायास्, रमभः - प्रहर्षः । वडः सौत्रः, वडभीवेश्माग्रभूमिका । ऋफिडादित्वाल्लत्वे वलभी । वल्लि संवरणे, वल्लभः - स्वामी, दयितश्च ।। ३२९ ।। कडभः सनेति ॥ ३३० ॥ षण् भक्तौ इत्यस्मात् डिद् अभः प्रत्ययो भवति । सभा परिषत्, शाला च ॥ ३३० ॥ ऋषि-वृषि-लुसिभ्यः कित् ॥ ३३१ ॥ एभ्यः कि अभः प्रत्ययो भवति । ऋषैत् गतो, वृषू सेचने, ऋषभः वृषभश्च पुङ्गवः, भगवांश्चादितीर्थंकरः । ऋषभः- वायुः । लुसिः सौत्रः, लुसभ: - हिंस्रः, मत्तहस्ती, वनं च ।। ३३१ ॥ सि टिकिभ्यामिभः सैर-टिट्टौ च ॥ ३३२ ॥ आभ्याम् इभः प्रत्ययो भवति । दन्त्यादिः सैर: टिट्टश्चादेशौ यथासंख्यं भवतः । षट् बन्धने, सैरिभ:- महिषः । टिकि गतौ, टिट्टिभः - पक्षी ।। ३३२ ।। ककेरुभः ॥ ३३३ ॥ ककि लौल्ये, इत्यस्माद् उभः प्रत्ययो भवति । ककुभः - अर्जुनः ।। ३३३ ।। कुकेः कोऽन्तश्च ॥ ३३४ ॥ कुकि आदाने, इत्यस्माद् उभः प्रत्ययो भवति, ककारश्चान्तादेशो भवति । कुक्कुभः - पक्षिविशेषः ।। ३३४ ॥ दमो दुण्टू च || ३३५ || दमूच् उपशमे, इत्यस्माद् उभः प्रत्ययो भवत्यस्य च दन्त्यादिष्टवर्गतृतीयान्तो दुण्ड् इत्यादेशो भवति । दुण्डुभ: - निर्विषाहिः ।। ३३५ ।। कृ- कलेरम्भः ॥ ३३६ ॥
SR No.034256
Book TitleSiddh Hemhandranushasanam Part 02
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages520
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy