SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ सूत्र - ३१२-३२० ] स्वोपज्ञोणादिगणसूत्र विवरणम् [ ३८५ उड् संघाते, इति सौत्रात् उपक्प्रत्ययो भवति । उडुपः- प्लवः । जपादित्वाद्वत्वे उडुवः ।। ३११ । अश ऊपः पश्च ।। ३१२ ॥ अशौटि व्याप्तौ इत्यस्मादूपः प्रत्ययः भवति, पश्चान्तादेशो भवति । अपूपः पक्वान्नविशेष: ।। ३१२ ॥ सतेंः षपः ।। ३१३ ॥ सृ गतौ इत्यस्मात् षपः प्रत्ययो भवति । सर्षपः- रक्षोघ्नं द्रव्यम्, शाकं च ॥३१३॥ री- शीभ्यां फः ॥ ३१४ ॥ आभ्यां कः प्रत्ययो भवति । रींङ च् श्रवणे, रेफः- कुत्सितः । शीङ क् स्वप्ने । शेफः-मेढ्रः ।।३१४।। कलि- गलेरस्योच्च || ३१५ ।। आभ्यां फः प्रत्ययो भवत्यस्य चोकारो भवति । कलि शब्दसंख्यानयोः, गल अदने, कुल्फ :- जङ्घाङ घिसन्धिः । गुल्फ :- पादोपरिग्रन्थिः ।। ३१५ ।। शफ - कफ शिफा - शोफादयः ॥ ३१६ ॥ शफादयः शब्दाः फप्रत्ययान्ता निपात्यन्ते । श्यतेः कायतेश्च ह्रस्वश्च । शफ:खुरः, प्रियंवदश्च । कफः- श्लेष्मा । श्यतेरित्वमोत्वं च । शिफा वृक्षजटा । शोफः श्वयथुः, खुरश्च । आदिशब्दाद् रिफानफासुनफादयो भवन्ति ।। ३१६ ।। वलि -नितनिभ्यां वः ॥ ३१७ ॥ वलि संवरणे, निपूर्वाच्च तनूयी विस्तारे इत्याभ्यां बः प्रत्ययो भवति । बल्ब:वृक्ष: । नितम्बः श्रोणिः, पर्वतैकदेशः, नटश्च ।। ३१७ ।। शम्य मेर्णिद्वा ॥ ३१८ ॥ आभ्यां बः प्रत्ययो भवति, स च णिद्वा भवति । शमूच् उपशमे, शम्ब:- वज्रः, कर्षणविशेषः, वेणुदण्डः, तोत्रम्, अरित्रं च । शम्बशाम्बी- जाम्बवतेयौ । अम् गतौ, अम्बामाता । आम्बः- अपह्नवः ।। ३१८ । शल्यलेरुच्चातः || ३१६ ॥ आभ्यां बः प्रत्ययो भवत्यकारस्य चोकारो भवति । पल-फल शल गतौ, शुल्बताम्रम् । अली भूषणादौ, उल्ब - रजतम्, गर्भवेष्टनम् । शुल्बं- बम्भ्रुः, तरक्षुश्च ।। ३१९ ।। तुम्ब स्तम्वादयः ॥ ३२० ॥ तुम्बादयः शब्दा बप्रत्ययान्ता निपात्यन्ते । ताभ्यतेरत उत्वं च । तुम्बम् अलाबु,
SR No.034256
Book TitleSiddh Hemhandranushasanam Part 02
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages520
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy