SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ सूत्र २८२-२८६ ] स्वोपज्ञोणादिगणसूत्रविवरणम् [ ३८१ श्या-कठि-खलि-नल्यवि-कुण्डिभ्य इनः ॥ २८२ ॥ एभ्य इनः प्रत्ययो भवति । श्यैड गतौ श्येन:-पक्षी, अभिचारयज्ञश्च । कठ कृच्छ्र जीवने, कटिनम् अमृदु । खल संचये च, खलिनम् अश्वमुखसंयमनम् । णल गन्धे, नलिनं-पद्मम् । अव रक्षणादौ अविनं जलं, मृगः, नाशः अग्निः, राजा, अध्वर्युः, विधानं, गुप्तिश्च । कुडुङ, दाहे, कुण्डिनः- ऋषिः, कुण्डिनं-नगरम् ।। २८२ ।। वृजि-तुहि-पुलि-पुटिभ्यः कित् ॥ २८३ ॥ एभ्यः किद् इन: प्रत्ययो भवति । वृजैकि वर्जने, वृजिनं-पापं, कुटिलं च । तुह अर्दने, तुहिनम्-हिममन्धकारश्च । पुल महत्त्वे, पुटत् संश्लेषणे, पुलिनं, पुटिनं च-नदीतीरं, वालुकासंघातश्च ॥ २८३ ॥ विपिनाजिनादयः ॥ २८४ ॥ विपिनादयः शब्दाः किद् इनप्रत्ययान्ता निपात्यन्ते । डुवपी बीजसंताने, टुवेपृङ चलने इत्यस्य वा, इच्चोपान्त्यस्य । विपिनं-गहनम् , अब्जं, जलदुर्ग च । अज क्षेपणे च, अस्य वीभावाभावश्च । अजिनं-चर्म । आदिग्रहणादन्येऽपि ॥ २८४ ।। महेर्णिद्वा ॥ २८५॥ मह पूजायाम् , इत्यस्माद् इनः प्रत्ययो भवति स च किद्वा भवति । माहिनं-राज्यं, बलं च । महिनं राज्यं, शयनं च । महिनः-माहात्म्यवान् ॥ २८५ ॥ खलि-हिंसिभ्यामीनः ॥ २८६ ॥ आभ्याम् ईनः प्रत्ययो भवति । खल संचये च, खलीनं- कवियम् । हिसुप् हिंसायाम् , हिंसीन:-श्वापदः ।। २८६ ।। पठेणित् ॥ २८७॥ पठ व्यक्तायां वाचि, इत्यस्मात् णिद् ईन: प्रत्ययो भवति । पाठीनः मत्स्यः ।२८७। यम्यजि-शक्य-जि-शी-यजि-तृभ्य उनः ॥ २८८ ॥ एभ्य उन प्रत्ययो सवति । यमू उपरमे, यमुना-नदी । अज क्षेपणे च, वयुनंविज्ञानम् , अङ्ग च, वयुन:-विद्वान् , चन्द्रः, यज्ञश्च । शक्लट् शक्ती, शकुनः-पक्षी। अर्ज अजुने, अर्जुनः-ककुभः, वृक्षविशेषः, पार्थः, श्वेतवर्णः, श्वेताश्वः, कार्तवीर्यश्च । अर्जुनीगौः । अर्जुनं तणं, श्वेतसुवर्ण च । शीङक स्वप्ने, शयुन:-अजगरः । यजी देवपूजादो, यजुनाक्रतुद्रव्यम् । तृ प्लवनतरणयोः, तरुणः समर्थः, युवा, वायुश्च । ऋफिडादित्वाल्लत्वे तलुनः ।। २८८ ॥ लषेः शू च ॥ २८६॥
SR No.034256
Book TitleSiddh Hemhandranushasanam Part 02
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages520
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy