SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ ३७४ ] स्वोपज्ञोणादिगणसूत्र विवरणम् [ सूत्र-२२९-२३५ अवभृ-निर्ऋ -समिणभ्यः ।। २२६ ॥ अपूर्वाद् बिभर्तेः, निस्पूर्वादः सम्प्र्वात् एतेश्च कित् थः प्रत्ययो भवति । अवभृथ: - यज्ञावसानं, यज्ञस्नानं च निर्ऋथि: - निकायः, निर्ऋ थं स्नानम् । समिथ:-संगमः, गोधूमपिष्टं च, समिथं समूहः ।। २२९ ।। सर्वेणित् || २३० || सृ गतौ इत्यस्माद् णित् थः प्रत्ययो भवति । सार्थः समूहः || २३० ॥ पथ-यूथ- गूथ- कुथ-तिथ-निथ- सूरथादयः ॥ २३१ ॥ एते प्रत्ययान्ता निपात्यन्ते । पलतेर्लो लुक् च पथः पन्थाः । यौतेगु वतेश्च दीर्घश्च यूथ:-समूहः, गूथम् - अमेध्यं विष्ठा च । किरतेः करोतेर्वा कुश्च, कुथः- कुथा वाआस्तरणम् । तनोतेस्तिष्ठतेर्वा तिश्च तिथः कालः । तिम्यते, तिथः प्रावृट्कालः । नयतेह्रस्वश्च निथः - पूर्वक्षत्रियः कालश्च । सुपूर्वात् रमेः सोर्दीर्घश्च कित् च । सूरथः- दान्तः । आदिग्रहणाद् निपूर्वाद् रौतेर्दीर्घत्वं च निरूथ:-दिक्, निरूथं पुण्यक्रम नियतम् । एवं संगीथप्रगाथादयोऽपि ।। २३१ ।। भृ-शी- शपि शमि-गमि-रमि-वन्दिवश्चि जीवि प्राणिभ्योऽथः ॥ २३२ ॥ भ्योऽथ: प्रत्ययो भवति । टुडुभृ ंग्क् च, भरथः - कैकयीसुतः, अग्निः, लोकपालश्च । शी स्वप्ने, शयथ: - अजगर:, प्रदोषः, मत्स्यः, वराहश्च । शपीं आक्रोशे, शपथ:-प्रत्ययकरणम्, आक्रोशश्च । शमूच् उपशमे, शमथः समाधिः, आश्रमपदं च । गम्लृ गतौ, गमथःपन्थाः, पथिकश्च । रमिं क्रीडायाम्, रमथः - प्रहर्षः । वदुङ स्तुत्यभिवादनयोः, वन्दथःस्तोता, स्तुत्यश्च । वञ्चू गतौ, वंचथः - अध्वा, कोकिलः काकः, दम्भश्च । जीव प्राणधारणे, जीवथ:-अर्थवान्', जलम्, अन्नं वायुः, मयूरः कूर्मः, धार्मिकश्च । अनक् प्राणने, प्राणथः- बलवान्, ईश्वरः, प्रजापतिश्च ।। २३२ ॥ उपसर्गाद्वसः ॥ २३३ ॥ उपसर्गात् परस्मात् वसं निवासे, इत्यस्मादथः प्रत्ययो भवति । आवसथः गृहम्, उपवसथ: - उपवासः, संवसथ:-संवासः, सुवसथ :- सुवास:, निवसथ: - निवासः ॥ २३३ ॥ विदि- भिदि रुदि-दुहिभ्यः कित् ॥ २३४ ॥ एभ्यः किथः प्रत्ययो भवति । विदंक् ज्ञाने विदथ: - ज्ञानी, यज्ञः अध्वर्युः, संग्रामश्च । भिदुपी विदारणे, भिदथः शरः । रुदृक् अश्रुविमोचने, रुदथः बालः, असत्त्वः, श्वा च । द्रुहौच् जिघांसायाम्, द्रुहथः - शत्रुः ॥ २३४ ॥ रोर्वा ॥ २३५ ॥ रुक् शब्दे, इत्यस्मादथः प्रत्ययो भवति, सच किद्वा भवति । रुक्थः शकुनिः, शिशुश्च । रवथः- आक्रन्दः, शब्दकारश्च ।। २३५ ।।
SR No.034256
Book TitleSiddh Hemhandranushasanam Part 02
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages520
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy