SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ पाद - ३, सूत्र - ५०-५२ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः [ २१ त्मनेपदमेव, वृत्त्यादिषु त्वन्योपसर्गपूर्वादपि पूर्वेण मन्यन्ते - निष्क्रमते, प्रतिक्रमते, - न प्रतिहन्यते इत्यर्थः ॥ ४६ ॥ न्या० स०- परोपा०:- पराक्रामतीति- कोऽर्थः ? परावृत्त्या क्रामति शौर्यं वा कुरुते । उपक्रामति समीपे गच्छतीत्यर्थः । वेः स्वार्थे ॥। ३. ३. ५० ॥ स्वार्थः पादविक्षेपः तस्मिन् वर्तमानाद् वेः परात् क्रमेः कर्तर्यात्मनेपदं भवति । साधु विक्रमते गजः । स्वार्थे इति किम् ? श्रश्वेन विक्रामति, विक्रामत्य जिन संधि:, - स्फुटतीत्यर्थः ; विक्रामति राजा, उत्सहते इत्यर्थः ।। ५० ।। न्या० स० - वेः स्वार्थे- अश्वेन विक्रामतीति- नन्वत्रापि पादविक्षेप एव ऋमिर्वर्त्तते स च कर्तृ कृतः करणकृतो वा भवतु ? सत्यं, गौणमुख्ययोः * इति न्यायात् सर्वकारकप्रधानभूतकर्तृकृत एव गृह्यते, अत्र तु करणकृतः पादविशेष इति न भवति । विक्रामति राजेति- 'परोपात्' ३-३-४९ एवेति नियमात् ' वृत्तिसर्ग' ३-३-४८ इत्यादिनापि न । प्रोपादारम्भे ।। ३ ३ ५१ ॥ " प्रारम्भ श्रादिकर्म, अङ्गीकरणं चेत्यन्ये, तस्मिन् वर्तमानात् प्रोपाभ्यां परात् क्रमेः कर्तर्यात्मनेपदं भवति । प्रक्रमते, उपक्रमते भोक्तुम्, - प्रारभते अङ्गीकरोति चेत्यर्थः । आरम्भ इति किम् ? पूर्वेद्युः प्रक्रामति, गच्छतीत्यर्थः ; अपरेद्युरुपक्रामति- समीपमागच्छतीत्यर्थः । " परोपात्" [ ३. ३. ४६ ] इत्यनेनापि न भवति वृत्त्यादेरर्थस्याविवक्षितस्वात् । अन्ये तु स्वार्थविषय एवारम्भे मन्यन्ते, तेनोपक्रमते, प्रक्रमते पादाभ्यां गन्तुमारभत इत्यर्थ इत्यत्रैव भवति, स्वार्थविषयारम्भादन्यत्र तु प्रक्रामति, उपक्रामति भोक्तुमित्यत्र न भवति ।। ५१ ॥ श्राङो ज्योतिरुद्गमे ॥ ३. ३. ५२ ॥ आङः परात् क्रमेर्ज्योतिषां चन्द्रादीनामुद्गमे ऊर्ध्वगमने प्रधाने उपसर्जने वा वर्तमानात् कर्तर्यात्मनेपदं भवति । श्राक्रमते चन्द्रः आक्रमते, सूर्य:, - उदयते इत्यर्थः ; दिवमाक्रममाणेन केतुना, अत्र दिवमिति कर्मणा योगादुद्गमनोपसर्जन व्याप्तिवचनः क्रमिः । ज्योतिरुद्गम इति किम् ? आक्रामति मारणवक: कुतुपम् - अवष्टम्नातीत्यर्थः । ज्योतिरिति किम् ? धूम आक्रामति, उद्गच्छतीत्यर्थ; श्राक्रामति धूमो हर्म्यतलम्, - उद्गच्छन् व्याप्नोतीत्यर्थः । उद्गम इति किम् ? 'नभः समाक्रामति नष्टवर्त्मना, स्थितैकचक्रेण रथेन भास्करः ।" अत्र व्याप्तिमात्रं विवक्षितम्, न तद्गमोपसर्जनव्याप्तिः । अन्ये तद्गमोपसर्जनां व्याप्ति पश्यन्तोऽसाधुमेनं मन्यन्ते ।। ५२ ।।
SR No.034256
Book TitleSiddh Hemhandranushasanam Part 02
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages520
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy