SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ सूत्र-१५६-१६५ ] स्वोपज्ञोणादिगणसूत्रविवरणम् [३६३ दुरो द्रः कूटश्च दुर् च ॥ १५६ ॥ दुपूर्वात् दृणातेः किदूट उठश्च प्रत्ययौ भवतः । दुर् चास्यादेशो भवति । दुर्दुरूट:-दुर्मुखः, दुई रुट: देशकालवादी.।। १५६ ।। बन्धेः॥ १५७॥ बन्धंश् बन्धने, इत्यस्माद् कित उटः प्रत्ययो भवति । वधूटी-प्रथमवयाः स्त्री ।१५७ चपेरेटः॥१५८ ॥ चप् सांत्वने, इत्यस्मादेटः प्रत्ययो भवति । चपेटः चपेटा वा-हस्ततलाहतिः ।१५८ ग्रो णित् ॥ १५६ ॥ गृत् निगरणे, इत्यस्मात् णिदेटः प्रत्ययो भवति । गारेट:-ऋषिः ॥ १५९ ॥ कृ-शक शाखेरोटः ।। १६०॥ एभ्य ओटः प्रत्ययो भवति । डुकृग् करणे, करोट: भृत्यः, शिरः, कपालं च, करोटं-भाजनविशेषः । शक्लृट् शक्ती, शकोट:-बाहुः । शाख श्लाख व्याप्ती, शाखोटः वृक्षविशेषः ।। १६० ॥ कपोट-बकोटामोट-ककोंटादयः ॥ १६१ ॥ एते ओटप्रत्ययान्ता निपात्यन्ते । कवा वर्णे, पश्च, कपोट:-वर्णः, कितवश्च । वचे कश्च, वकोट: वकः । अश्नातेः सश्च परादिः, अक्षोट:-फलवृक्षः । कृगः-कोऽन्तश्च, कर्कोटः-नागः। आदिशब्दादन्येऽपि भवन्ति ॥ १६१ ।। वनि-कणि-काश्युषिभ्यष्ठः ॥ १६२ ॥ एभ्यष्ठप्रत्ययो भवति । वन भक्ती, वण्ठः अनिविष्टः । कण शब्दे, कण्ठः-कन्धरा । काशृङ, दीप्तौ, काष्ठ-दारु, काष्ठा-दिक् अवस्था च । उषू दाहे, ओष्ठः-दन्तच्छदः ।१६२ पी-विशि-कुणि-पृषिभ्यः कित् ।। १६३ ॥ एभ्यः कित् ठः प्रत्ययो भवति । पीङ च पाने, पीठम्-आसनम् । विशंत् प्रवेशने, विष्ठा-पुरीषम् । कुणत् शब्दोपकरणयोः, कुण्ठः-अतीक्ष्णः पृषू सेचने पृष्ठः-अङ कुशः, शरीरैकदेशश्च ।। १६३ ।। कुषेर्वा ॥ १६४ ॥ कुषश् निष्कर्षे, इत्यस्मात् ः प्रत्ययो भवति स च वा कित् भवति । कुण्ठंव्याधिः गन्धद्रव्यं च, कोष्ठः-कुशूलः, उदरं च ।। १६४ ।। शमेलु च वा ॥ १६५ ॥
SR No.034256
Book TitleSiddh Hemhandranushasanam Part 02
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages520
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy