SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ ३५८ ] स्वोपज्ञोणादिगणसूत्रविवरणम् [सूत्र-११५-१२३ एभ्योऽचः प्रत्ययो भवति । कलि शब्दसंख्यानयोः, कलच:-गणक: । अव रक्षणादौ, अवच:-उच्चस्तरः। मदैच् हर्षे, मदच: मत्तः । मण शब्दे, मणचः-शकुनिः । कुङ शब्दे, कवचं-वर्म । कण शब्दे, कणचः-कणयः । कुटत् कौटिल्ये, कुटचः वृक्षजातिः, कृत विक्षेपे, करच:-धान्यावपनम् ।। ११४।। क्रकचादयः ॥ ११५ ॥ क्रकच इत्यादयः शब्दा अप्रत्ययान्ता निपात्यन्ते । क्रमेः कश्च, जक:-करपत्त्रः । आदिशब्दादन्येऽपि ॥ ११५ ।। पिशेराचक् ॥ ११६ ॥ पिशत् अवयवे, इत्यस्मादाचक् प्रत्ययो भवति । पिशाचः-व्यन्तरजातिः ।।११६॥ मृ-पिभ्यामिचः ॥ ११७ ॥ आभ्यामिचः प्रत्ययो भवति । मृत् प्राणत्यागे, मरिचम् ऊषणम् । त्रप्रौषि लज्जायाम् , त्रपिचा-कुथा ॥ ११७ ॥ म्रियतेरीचण ॥११८ ॥ मृत् प्राणत्यागे, इत्यस्मादीचण् प्रत्ययो भवति । मारोचः-रावणमातुलः ॥११८।। लषेरुचः कश्च ॥ ११९ ॥ लषी कान्तौ। इत्यस्मादुचः प्रत्ययो भवति । अन्त्यस्य च को भवति । लकुच:वृक्षजातिः ।। ११६ ।। गुडेरूचट् ॥ १२०॥ गुडत् रक्षायाम् , इत्यस्मादूचट् प्रत्ययो भवति । गूडूची-छिन्नरुहा । कुटादित्वाद टित्त्वम् ।। १२० ॥ सिवेडित ॥१२१॥ षिवूच् ऊतो, इत्यस्यात् उचट् प्रत्ययो डित् भवति । सूचः-पिशुनः, स्तिभिश्चः । सूची-संधानकरणी ॥१२१॥ चि-मेडोंचडचौ ॥ १२२॥ चिमिभ्यां प्रत्येकं डोच डञ्च इति प्रत्ययो भवतः । वचनभेदान्न यथासंख्यम् । चिंगट चयने, चोचः वृक्षविशेषः, चञ्चा-तृणमयः पुरुषः। डुमिंगट प्रक्षेपणे, मोचा-कदली, मञ्चःपर्यङ्कः ।।१२२॥ कुटि-कुलि-कल्युदिभ्य इश्वक् ।। १२३ ॥
SR No.034256
Book TitleSiddh Hemhandranushasanam Part 02
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages520
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy