SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ सूत्र-९१-९८ ] स्वोपज्ञोणादिगणसूत्रविवरणम् [ ३५५ न्युङ्खादयः शब्दाः खप्रत्ययान्ता निपात्यन्ते । नयतेः ख उन् चान्तः, न्युङ्खा:षडोङ्काराः । आदिग्रहणादन्येऽपि ।। ६० ।। मये-धिभ्यामृखेखौ ।। ६१॥ मयि गतौ, एधि वृद्धौ, इत्याभ्यां यथासंख्यं ऊख, इख इत्येतो प्रत्ययो भवतः । मयूख:-रश्मिः । एघिखः-वराहः ।। ६१ ।। गम्यमि-रम्यजि-गद्यदि-छो-गडि-खडि-ग-भृ-वृ-स्वृभ्यो गः॥ १२ ॥ एभ्यो गः प्रत्ययो भवति । गम्लु गतौ, गङ्गादेवनदी । अम गतौ अङ्गम्-शरीरावयवः, अङ्गः समुद्रः, वह्निः, राजा च, अङ्गा-जनपदः । रमि क्रोडायाम् , रङ्गः-नाटयस्थानम् । अज क्षेपणे च, वेग:-स्वरा, रेतश्च । गद वक्तायां वाचि, गद:-वाग्विकलः । अदंक भक्षणे, अद्गः समुद्रः, अग्नि:, पुरोडाशश्च । छोंच छेदने, छागः-बस्तः । गड सेचने, गङ्गः-मृगजातिः । खडण् भेदे, खड्गः मृगविशेषः असिश्च । गत् निगरणे, गर्ग:-ऋषिः। टुडुभृगक पोषणे च, भर्गः-रुद्रः, सूर्यश्च । वृग्ट वरणे, वर्गः संघातः औस्व शब्दोपतापयोः, स्वर्गः-नाकः।। ९२ ।। पू-मुदिभ्यां कित् ॥ १३ ॥ आभ्यां किद्गः प्रत्ययो भवति । पूग्श् पवने पूगः-संघातः, क्रमुकश्च । मुदि हर्षे मुद्गः-धान्यविशेषः ।। ९३ ।। भृ-वृभ्यां नोऽन्तश्च ॥ १४ ॥ आभ्यां किद्गः प्रत्ययो भवति, नकारश्चान्तो भवति । टुडुभृक् पोषणे भृङ्गःपक्षी, भ्रमरः वर्णविशेष:, लवङ्गश्च । वृन्ट् वरणे, वृङ्गः-पक्षी, उपपतिः।। ९४ ॥ . द्रमो णिद्वा ॥ १५॥ द्रम गती, इत्यस्माद्गः प्रत्ययो भवति स च णिद्वा । द्राङ्ग-शीघ्रम् , द्राङ्गः-पांशुः, द्रङ्ग:-नगरम् , द्रङ्गा-शुल्कशाला ।। ९५ ।। शृङ्ग-शाङ्गादयः ।। ६६ ॥ शृङ्गादयः शब्दा गप्रत्ययान्ता निपात्यन्ते । शृश् हिंसायाम् , इत्यस्य नोऽन्तो ह्रस्वश्च । शृङ्ग-विषाणम् , शिखरं च, तस्यैव नोऽन्तो वृद्धिश्च, शाङ्ग:-पक्षी । आदिग्रहणात् हृग हरणे, हार्ग:-परितोषः । मत् प्राणत्यागे, मार्ग:-पन्थाः ॥६६॥ तडेरागः॥ १७ ॥ तडण् आघाते, इत्यस्मादागः प्रत्ययो भवति । तडागं सरः।। ९७ ।। पति-तमि-त-प-कृ-शल्वादेरङ्गः ॥१८॥ एभ्योऽङ्गः प्रत्ययो भवति । पत्लु गतौ, पतङ्गः-पक्षी शलभः, सूर्यः, शालि
SR No.034256
Book TitleSiddh Hemhandranushasanam Part 02
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages520
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy