SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ ३३८ ] बृहद्वृत्ति-लधुन्याससंवलिते [पाद-४, सूत्र-६० न्या० स०-इच्छार्थे कर्मणः-उपपदे इति-उप समीपे पदमिति कृत्वा इच्छार्थेऽग्रेऽपि स्थिते भवति । भोजको व्रजतीति-अत्र कर्मतापि नास्तीति व्यावृत्तेर्व्यङ्गविकलत्वमिति न वाच्यं, यतो व्रजति कोऽर्थो बदध्या प्राप्नोति? किं तत् कर्मतापन्नं भावि भोजनं यतो भोजक इत्यत्र भविष्यदर्थे णकः, यद्वा गत्यर्थत्वात् ज्ञानार्थो वा ततो व्रजतीति कोऽर्थः ? अध्यवस्यति जानाति इत्येक एवार्थः। . शक घृष-ज्ञा-रभ लभ-सहा-ऽहे-ग्ला-घटा-ऽस्ति-समर्थार्थे च तुम् ॥५. ४.१०॥ शक्याद्यर्थेषु धातुषु समर्थार्थेषु नामसु च चकराविच्छार्थेषु धातुषूपपदेषु कर्मभूताद् धातोस्तुम् प्रत्ययो भवति । शक्नोति पारयति वा भोक्तुम्, घृष्णोत्यध्यवस्यति वा भोक्तुम्, जानाति वेत्ति वा भोक्तुम, प्रारभते प्रक्रमते वा भोक्तुम, लभते विन्दते वा भोक्तुस, सहते क्षमते वा भोक्तुम, प्रहति प्राप्नोति वा भोक्तुम , ग्लायति म्लायति वा भोक्तुम, घटते युज्यते वा मोक्तुम, अस्ति विद्यते वा भोक्तुम् , समर्थोऽलं प्रभवति ईष्टे वा भोक्तुम् । समर्थार्थप्रतीता. वपि भवति-द्रष्टुं चक्षुः, योद्धु धनुः । 'शक्त्या भुज्यते, मामर्थ्येन भुज्यते' इत्यादौ त्वनभिधानान्न भवति । इच्छार्थेषु-इच्छति भोक्तुम् , भोक्तु वाञ्छति, भोक्तुम् वष्टि, भोक्तुमभिलषति, समर्थार्थत्वादेव सिद्ध शकग्रहणमसमर्थार्थम् । कर्मण इति च सामर्थ्याच्छकादिष्वर्हपर्यन्तेषु इच्छार्थेषु चोपपदेषु सत्सु सम्बन्धनीयम् । अन्ये तु शकादिषु घटान्तेषु स्वरूपोपदेष्वेवेच्छन्ति, न तदर्थेषु । मतादार्थमकियोपपदार्थ चेदं प्रस्तूयत इति ॥९॥ इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनवृत्ती पश्चमाध्यायस्य चतुर्थः पादः।। न्या० स०-शकधृषज्ञा-अत्र तुल्यकर्तृक इति यथासंभवं योज्यम् । शक्नोतीति-समापयतीत्यर्थ इति समर्थार्थद्वारा न सिध्यतीति शक्रिग्रहणम् । इत्याचार्यश्री सिद्धहेमचन्द्राभिधानस्वोपज्ञ-शब्दानुशासनबृहवृत्तेः पञ्चमाध्यायस्य न्यासतः चतुर्थः पादः समाप्तः।
SR No.034256
Book TitleSiddh Hemhandranushasanam Part 02
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages520
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy