SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ ३३४ ] बृहवृत्ति लघुन्याससंवलिते [पाद-४, सूत्र-७८-८१ द्वितीयया ॥ ५. ४.७८ ॥ द्वितीयान्तेन योगे धातोस्तुल्यकर्तृ केऽर्थे वर्तमानात् त्वरायां गम्यमानायां धातो: सम्बन्धे णम् वा भवति । लोष्टान् ग्राहं लोष्टग्राहं युध्यन्ते, यष्टोहिं यष्टिग्राहं युध्यन्ते, दण्डमुद्यामं दण्डोद्यामं धावति, एवं नाम योधु त्वरन्ते यदायुद्धग्रहणमपि नाद्रियन्ते यत्किचिदासन्नं तद् गृह्णन्ति ; पक्षे लोष्टान् यष्टीहीत्वा युध्यन्ते । त्वरायामित्येव-खड्गं गृहीत्वा युध्यन्ते । योगविभाग उत्तरार्थः ।। ७८ ।। स्वाङ्गेनाऽध्रवेण ॥ ५. ४.७१ ॥ "अविकारोऽद्रवं मूर्तम्" इत्यादिलक्षणं स्वाङ्गम, यस्मिन्नङ्गे छिन्न भिन्ने वा प्राणी न म्रियते तदध्रुवम् , अध्रुवेण स्वाङ्गेन द्वितीयान्तेन योगे धातोस्तुल्यकर्तृ केऽर्थे वर्तमानात धातोः संबन्धे णम् वा भवति । भ्र वौ विक्षेपं भ्र विक्षेपं जल्पति, अक्षिणी निकाणमक्षिनिकाणं हसति, केशान् परिधायं केशपरिधायं नृत्यति, प्रतिमाया: पादवनुलेपं पादानुलेपं प्रणमति । पक्षे-भ्र वौ विक्षिप्य जल्पतीत्यादि । स्वाञ्जेनेति किम् ? कफमुनमूल्य जल्पति । अध्रुवेणेति किम् ? . शिर उत्क्षिप्य कथयति ।।७६॥ परिक्लेश्येन ॥ ५. ४.८० ॥ __ परि-समन्तात् किश्यमानं-पीड्यमान-परिकेश्यम् , तेन स्वाङ्गेन द्वितीयान्तेन योगे तुल्यकर्तृ केऽर्थे वर्तमानाद् धातोर्धातो: संबन्धे णम् वा भवति । ध्रुवार्थोऽयमाऽम्भः । ___ उरांसि प्रतिपेषमुरःप्रतिपेषं युध्यन्ते, शिरांसि च्छेदं शिरश्छेदं युध्यन्ते, उरांसि परितः पोडयन्तः शिरांसि छिन्दन्तो युध्यन्त इत्यर्थः । पक्षे-उरांसि प्रतिपिष्य, शिरांसि छित्त्वा ।। ८० ॥ विश-पत-पद स्कन्दो वीप्ला-ऽभीक्ष्ण्ये ॥ ५. ४. ८१ ॥ श्रुतत्वाद् विश्यादिक्रियाभिः साकल्येनोपपदार्थानां व्याप्तुमिच्छा-वीप्सा, प्रकृत्यर्थस्य पौनःपुन्येनासेवनम्-प्राभीक्ष्ण्यम् , यदाहुः-सुप्सु वीप्सा, तिषु अव्ययकृत्सु चाभीक्ष्ण्यमिति । द्वितीयान्तेन योगे विशादिभिस्तुल्यकर्तृ केऽर्थे वर्तमानेभ्यो वीप्सायामाभीक्ष्ण्ये च गम्यमाने धातोः सम्बन्धे सति णम् वा भवति ।। गेहं गेहमनुप्रवेशं गेहानुप्रवेशमास्ते, गेहमनुप्रवेशमनुप्रवेशं गेहानुप्रवेशमास्ते; गेहंगेहमनुप्रपातं गेहानुप्रपातमास्ते, गेहमनुप्रपातमनुप्रपातं गेहानुप्रपातमास्ते; गेहं गेहमनुप्रपादं गेहानुप्रपादमास्ते, गेहमनुप्रपादमनुप्रपादं गेहानुप्रपादमास्ते; गेहं गेहमवस्कन्दं गेहावस्कन्दमास्ते, गेहमवस्कन्दमवस्कन्दं गेहावस्कन्दमास्ते । पक्षे-'गेहं गेहमनुप्रविश्यास्ते, गेह
SR No.034256
Book TitleSiddh Hemhandranushasanam Part 02
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages520
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy