SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ ३३२ ] बृहवृत्ति-लघुन्याससंवलिते [पाद-४, सूत्र-७३-७५ उपपूर्वात किरतेलवनेऽर्थे वर्तमानस्यान्यस्य धातोः संबन्धे सति णम् वा भवति । लवन इति वचनात् तस्यैवेति निवृत्तम् । __उपस्कारं मद्रका लुनन्ति, विक्षिपन्तो लुनन्तीत्यर्थः । लवन इति किम् ? उपकीर्य गच्छति ।। ७२ ॥ न्या० स०-उपाकिरो-तस्येवेति निवृत्तमिति-इत ऊर्ध्वं तस्यैवान्यस्यैवेति कामचारः परं यत्र तस्यैव तत्र क्रियाविशेषणमेव । विक्षिपन्त इति-पूर्वं विक्षिपन्तः पश्चाल्लुनन्तीत्यर्थः । दंशेस्तृतीयया ॥ ५. ४. ७३ ॥ तृतीयान्तेन योगे उपपूर्वात् तुल्यकर्तृ केऽर्थे वर्तमानाद् दंशेरन्यस्य धातोः संबन्धे सति णम् वा भवति । मूलकेनोपदंशं भङ्क्ते, मूलकोपदंशं भुङ्क्ते ; आव्रकेणोपदंशं भुङ्क्ते, आर्द्रकोपदंशं भुङ्क्ते; पक्षे-मूलकेनोपदश्य भुङ्क्ते, आर्द्रकेणोपदश्य भुङ्क्ते । मूलकाद्युपदंशेः कर्मापि प्रधानस्य भुजेः करणमिति ततीयव भवति । प्रधान क्रियोपयुक्त हि कारके गणक्रिया न स्वानुरूपां विभक्तिमुत्पादयितुमलमप्रधानत्वादेव, यथेष्यते ग्रामो गन्तु, पक्त्वा भुज्यते ओवन इति । यदा त्ववयवक्रियापेक्षया पूर्वकालविवक्षायां क्त्वा क्रियते तदा क्रियाभेदात् संबन्धभेदे द्वितीयाऽपि भवति-मूलकमुपदश्य भुङ्क्ते इति ।। ७३ ।। हिंसा देकाप्यात् ॥ ५. ४. ७४ ॥ हिंसा प्राण्युपघातस्तदर्थाद् धातोः संबध्यमानेन धातुना सहकाप्यात्-एककर्मकात् तृतीयान्तेन योगे तुल्यकर्तृ केऽर्थे वर्तमानात् णम् वा भवति । दण्डेनोपघातं गाः सादयति, दण्डोपघातं गाः सादयति । खड्गेन प्रहारं खड्गप्रहारं शत्रून् विजयते, दण्डेनाताई दण्डाताडं गाः कलयति; पक्षे-दण्डेनोपहत्येत्यादि । हिंसादिति किम् ? चन्दनेनानुलिप्य जिनं पूजयन्ति । एकाप्यादिति किम् ? दण्डेनाहत्य चौरं गोपालको गाः खेटयति ॥ ७४ ।। न्या० स०-हिसार्थादे-दण्डेनोपघातमिति दण्डशब्दात् हेतौ करणे वा तृतीया, ननु करणोपपदात् हिंसादपि 'करणेभ्यः' ५-४-६४ इति प्रवर्तते, तत्र च तस्यैवेत्युक्तमिति तस्यैवेति व्यावृत्तिः प्राप्नोति ? सत्यं,-'करणेभ्यः' ५-४-६४ इति सूत्रस्य तस्यैवेति व्यावृत्तिर्गत्यर्थस्यापि हन्तेश्चरितार्था इति करणोपपदादपि । उपपीड-रुध-कर्षस्तत्सप्तम्या ॥५. ४. ७५ ॥ तया तृतीयया युक्ता सप्तमी-तत्सप्तमी, तदन्तेन योगे उपपूर्वेभ्यः पीड-रुध-कर्षतिभ्यस्तुल्यकर्तृ केऽर्थे वर्तमानेभ्यो धातोः संबन्धे णम् वा भवति ।
SR No.034256
Book TitleSiddh Hemhandranushasanam Part 02
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages520
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy