SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ बृहवृत्ति-लघुन्याससंवलिते [पाद-३, सूत्र-३३-३५ न्या० स०-समस्तृती०-धातोस्तृतीयया योगाभावादित्याह तृतीयान्तनेति-उभौलीको संचरसीति-यद्यप्यत्र विद्यया तपसा वेत्यर्थादिह तृतीयान्तं गम्यते तथापि तृतीययेति सहयोगे तृतीया साक्षाद्योगप्रतिपत्यर्थं न गम्यमाने इति प्रत्युदाह्रियतेऽन्यथा करणमन्तरेण क्रियासिद्धेऽभावाद् व्यावृत्तिरेव न घटत इति भावः, न हि काचित् क्रिया करणमन्तरेण भवतीति । सह धनेन देवदत्तः संचरतीत्यत्र तु विद्यमानार्थतायां चरतेस्तृतीयान्तेन योगाभाव एव, तत्र हि तृतीयान्तं कर्जव युक्तं न संचरतिना, न हि तद्धनं चैत्रेण सह संचरतीति । क्रीडोऽकूजने ॥ ३. ३. ३३ ॥ कजनमव्यक्तः शब्दः ततोऽन्यस्मिन्नर्थे वर्तमानात संपूर्वात कोडेः कर्तर्यात्मनेपदं भवति । संक्रीडते, संकोडमाणः, रमते इत्यर्थः । सम इत्येव ? क्रीडति । प्रकूजन इति किम् ? संक्रोडन्ति शकटानि, अव्यक्तं शब्दं कुर्वन्तीत्यर्थः ।। ३३ ॥ अन्वाङ्परेः॥ ३. ३. ३४ ॥ 'अनु आङ् परि' इत्येतेभ्य उपसर्गेभ्यः परात् क्रीडतेः कतर्यात्मनेपदं भवति । अनुक्रीडते, अनुक्रीडमाणः । आक्रीडते, आक्रीडमानः। परिक्रीडते, परिक्रीडमानः । उपसर्गादित्येव ? माणवकमनुक्रीडति, माणवकेन सह क्रीडतीत्यर्थः, धातुना अनोरसम्बन्धाद् वा न भवति । एवं उपरिकोडति ॥ ३४॥ न्या० स०-अन्वाङ्प०-माणवकमनुकोडतीति-अत्रानोर्माणवकेन योगादुपसर्गत्वाभावादुपसर्गानुवृत्तेरवनात्मनेपदम् । अनोरसंबन्धाद वेति-उपसर्गनिरपेक्षमिदमुक्तं कोऽर्थः ? उपसर्गाननुवृत्तावप्यऽन्वाङ परेरिति आवृत्त्या संबन्धषष्ठ्या आश्रयणादनोर्धातुना संबन्धाभावात्तदभाव इति। शप उपलम्भने ॥ ३. ३. ३५ ॥ उपलम्भनेऽर्थे वर्तमानाच्छपतेः कर्तर्यात्मनेपदं भवति । उपलम्भनं-प्रकाशनं ज्ञापनम् । मैत्राय शपते, मैत्रं कश्चिदर्थ बोधयतीत्यर्थः, मैत्रमेववंभूतोऽसावित्यन्यस्म प्रकाशयतीत्येके । अथवा स्वाभिप्रायस्य परत्राविष्करणमुपलम्भनं शपथ इति यावत् । मैत्राय शपते इति, वाचा मात्रादिशरीरस्पर्शनेन मैत्रं स्वाभिप्रायं बोधयतीत्यर्थः । प्रोषितस्य भावाऽभावोपलब्धौ कस्यचिदर्थस्यासेवनं चोपलम्भनम्-मैत्राय शपते इति, प्रोषिते मैत्रे तस्य भावेऽभावे चोपलब्ध सति तदनुरूपं किश्चिदनुतिष्ठतीत्यर्थः। उपलम्भन इति किम् ? मैत्रं शपति, आकोशतीत्यर्थः ।। ३५ ॥ न्या० स०-शप उ०-प्रकाशयतीत्येके इति-अस्मिन् व्याख्याने मैत्रशब्दान्मतान्तरेणैव चतुर्थी प्रयोज्यत्वाभावान्मत्रस्य। .
SR No.034256
Book TitleSiddh Hemhandranushasanam Part 02
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages520
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy