SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ पाद - ४, सूत्र - १७ - २० श्री सिद्ध हेमचन्द्रशब्दानुशासने पंचमोऽध्यायः [ ३१३ जातु यद- यदा यदौ सप्तमी ॥ ५.४ १७ ॥ 'जातु यद् यदा यदि' इत्येतेषूपपदेषु अश्रद्धाऽमर्षयोर्गम्यमानयोर्धातोः सप्तमी भवति । भविष्यन्त्यपवाद: । न श्रद्दधे न क्षमे - जातु तत्रभवान् सुरां पिबेत्, यत् तत्रभवान् सुरां पिबेत्, यदा तत्रभवान् सुरां पिबेत्, यदि तत्रभवान् सुरां पिबेत् । श्रत्र सप्तमीनिमित्तमस्तीति भूते क्रियातिपतने वा क्रियातिपत्तिः न श्रद्दधे न क्षमे जातु तत्रभवान् सुरामपास्यत्, पक्षे- पिबेत् । भविष्यति तु नित्यम् जातु तत्रभवान् सुरामपास्यत् ||१७|| न्या० स० - जातु यद्यदा- भविष्यन्त्यपवाद इति - ' अश्रद्धामर्षे' ५-४-१५ इति प्राप्तायाः । क्षेपे च यच्च यत्रे ॥ ५. ४.१८ ॥ यच्च यत्रशब्दयोरुपपदयोः क्षेपेऽश्रद्धाऽमर्षयोश्च गम्यमानयोर्धातोः सप्तमी भवति । अश्रद्धाऽमर्षयोभविष्यन्त्याः, क्षेपे तु सर्वविभक्तीनामपवादः । धिग् गर्हाम हे - यच्च तत्रभवानस्मानाक्रोशेत्, यत्र तत्रभवानस्मानाक्रोशेत्, न श्रद्धे न क्षमे यच्च तत्रभवान् परिवादं कथयेत्, यत्र तत्रभवान् परिवादं कथयेत् । अत्रापि सप्तमीनिमित्तमस्तीति भूते क्रियातिपतने वा क्रियातिपत्तिर्भवति धिग् गर्हामहे न श्रद्दधे न क्षमे - यच्च यत्र वा तत्रभवानस्मानाक्रोक्ष्यत्, पक्षे- आक्रोशेत् । भविष्यति तु नित्यम्-धिग् गर्हाम, न श्रद्दधे क्षमे यच्च यत्र वा तत्रभवान् परिवादकथयिष्यत् ||१८|| चित्रे ॥ ५. ४. ११ ॥ चित्रमाश्वर्यम्, तस्मिन् गम्यमाने यच्च यत्रयोरुपपदयोर्धातोः सप्तमी भवति । सर्वविभक्त्यपवाद: । चित्रमाश्वर्यमद्भुतं विस्मनीयं यच्च तत्रभवानकल्प्यं सेवेत, यत्र तत्रभवानकल्प्यं सेवेत । अत्रापि सप्तमीनिमित्तमस्तीति भूते क्रियातिपतने वा क्रियातिपत्तिर्भवति-चित्रं यच्च यत्र वा तत्र भवानकल्प्यमसेविष्यत्, पक्षे सेवेत । भविष्यति तु नित्यम् - चित्रं वा यच्च वा तत्रभवान कल्प्यम से विष्यत ||१९|| न्या० स० - चित्रे - सर्वविभक्त्यपवाद इति कालस्याऽनिद्देशात् त्रिष्वपि कालेष्वस्य प्रवर्त्तनात् । शेषे भविष्यत्ययौ ।। ५. ४, २० ॥ शेले शेषे यच्च यत्राभ्यामन्यस्मिन्नुपपदे चित्रे गम्यमाने धातोर्भविष्यन्ती विभक्तिर्भवति, प्रयदौ-यदिशब्दश्चेन्न प्रयुज्यते । सर्वविभक्त्यपवादः । चित्रमाश्चर्यमन्धो नाम पर्वतमारोक्ष्यति, बधिरो नाम व्याकरणं श्रोष्यति, मूको नाम धर्म कथयिष्यति । श्रत्र सप्तमीनिमित्तं नास्तीति न क्रियातिपत्तिः । शेष इति किम् ?
SR No.034256
Book TitleSiddh Hemhandranushasanam Part 02
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages520
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy