SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ ३१० ] बृहद्वृत्ति-लघुन्याससंवलिते . [ पाद-४, सूत्र-९-११ स्मिन्नध्वनि वलभ्याः परस्तात द्विरोदनं भोक्तास्महे । प्रबन्धासत्योस्तु नित्यं भविष्यन्ती-आ शत्रुञ्जयाद् गन्तव्येऽस्मिन्नध्वनि वलभ्याः परस्तादविच्छिन्नं सूत्रमध्येष्यामहे । पर इति किम् ? अर्वाग्भागे पूर्वेण नित्यं प्रतिषेधः । एष्यतीत्येव ? अतीते वत्सरे परस्तादाग्रहायण्याः सूत्रं युक्ता अध्यैमहि । अवधावित्येव ? योऽयमागामी निरवधिकः कालस्तस्य यत् परमाग्रहायण्यास्तत्र द्विरध्येतास्महे । अनहोरात्राणामित्येव ? योऽयं त्रिशद्रात्र आगामी तस्य यः परः पञ्चदशरात्रस्तत्र युक्ता प्रध्येतास्महे ।।८।। . न्या० स०-परे वा-अयमेव विकल्प इति-न तु 'नानद्यतन' ५-४-५ इति नित्यं निषेधः । नित्यं भविष्यन्तीति-'नानद्यतन' ५-४-५ इति श्वस्तन्या निषेधात् । सप्तम्यर्थे क्रियातिपत्तो क्रियातिपत्तिः॥ ५. ४. १ ॥ सप्तम्या अर्थो निमित्तं हेतु-फलकथनादिका सामग्री । कुतश्चिद् वैगुण्यात क्रियाया अतिपतनमनभिनिर्वृत्तिः-क्रियातिपत्तिः, तस्यां सत्यामेष्यत्यर्थे वर्तमानाद् धातोः सप्तम्यर्थे क्रियातिपतिविभक्तिर्भवति । दक्षिणेन चेदयास्यन्न शकटं पर्याभविष्यत् , यदि कमलकमावास्यन्न शकटं पर्याभविष्यत्, अत्र दक्षिणगमनं कमलका ह्वानं च हेतुरपर्याभवनं फलम्, तयोः कुतश्चित् प्रमाणाद् . भविष्यन्तीमनभिनिवृत्तिमवगम्यैवं प्रयुङ्क्ते । एवमभोक्ष्यत भवान् घृतेन यदि मत्समीपमागमिष्यत्, स यदि गुरूनुपासिष्यत शास्त्रान्तमगमिष्यत् ॥९॥ भूते ।। ५. ४.१०॥ भूतेऽर्थे वर्तमानाद् धातोः क्रियातिपत्तौ सत्यां सप्तम्यर्थे क्रियातिपत्तिविभक्तिभवति । “सप्तम्युताऽप्यो ढे" ( ५-४-२१ ) इत्यारभ्य सप्तम्यर्थेऽनेन विधानम् , ततः प्राक् "वोतात् प्राक्" (५-४-११) इति विकल्पो वक्ष्यते। दृष्टो मया भवतः पुत्रोऽन्नार्थी चंक्रम्यमाणः; अपराश्चातिथ्यर्थी, यदि स तेन दृष्टोऽभविष्यत् उताभोक्ष्यत अप्यभोक्ष्यत, न तु दृष्टोऽन्येन पथा गत इति न भुक्तवान् ।।१० न्या० स०-भूते-दृष्टोऽभविष्यदिति-अत्राश्रद्धाया गम्यमानत्वात् 'जातुयद्यदा' ५-४-१७ इति सप्तमीनिमित्तत्वम् । उताभोक्ष्यतेति-'सप्तम्युताप्यो ढे' ५-४-२१ इति सप्तम्यर्थः । वोतात् प्राक् ॥ ५, ४, ११ ।। "सप्तम्यूताऽप्योढेि" (५-४-२१) इत्यत्र यद् उतशब्दसंकीर्तनं ततः प्राक सप्तमीनिमित्त क्रियातिपत्तौ सत्यां भूतेऽर्थे वर्तमानाद् धातोर्वा क्रियातिपत्तिर्भवति । कथं नाम संयतः सन्ननागाढे तत्रभवान् प्राधायकृतमसेविष्यत, धिग् गमिहे ।
SR No.034256
Book TitleSiddh Hemhandranushasanam Part 02
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages520
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy