SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ २६४] बृहवृत्ति-लघुन्याससंवलिते [पाद-३, सूत्र-१००-१०४ समज-समजन्त्यस्यामिति-समज्या। निपनिषदेति संहितानिर्देशात पतेः पदेश्च ग्रहणम्, निपतन्त्यस्यामिति-निपत्या, निपद्या। निषद्-निषदनं निषीदन्त्यस्यामिति वानिषद्या । शीड-शेरतेऽस्यामिति शय्या। संग-सवनं सन्वन्त्यस्यामिति वा-सत्या । विदवेदनं विदन्ति तस्यां तया वा हिताहितमिति-विद्या। चर् चरणं चरन्ति प्रनयेति वा-चर्या । मन्-मननं मन्यतेऽनयेति वा-मन्या। इण्-अयनमेत्यनयेति वा-इत्या । नाम्नीत्येव ? संघीतिः, निपत्तिः, निषत्तिः ||६|| न्या० स०-समजनि-पूर्ववत् संज्ञाशब्दत्वात् आधारेऽपि क्यप् । विद्येति-संज्ञा. शब्दत्वात् आदादिकस्यैव विदेब्रहणं न त्वऽन्यस्य । कृगः श च वा ॥ ५. ३.१००। करोतेर्भावाकों: स्त्रियां शः प्रत्ययो वा भवति, चकारात क्यप् च । क्रिया, कृत्या, पक्षेकृतिः । क्रियेति यदा भाव-कर्मणोः शस्तदा मध्ये क्यः, यदा त्वपादानादौ शस्तदा क्यो नास्तीति रेरिकारस्येयादेशः ॥१०॥ मृगयेच्छा-याच्या-तृष्णा-कृपा-भा-श्रद्धाऽन्तर्धा ॥ ५. ३. १०१ ॥ एते शब्दाः स्त्रियां निपात्यन्ते । तत्रेच्छा भाव एव, शेषास्तु भावाऽकोंः । अन्ये तु सर्वान् भाव एवानुमन्यन्ते। मगयतेः शः शव् च क्यापवादो निपात्यते-मृगया। इच्छतेः शः क्याभावश्चइच्छा । याचितृष्योर्न-नौ-याच्या, तृष्णा । क्रपेरङ् रेफस्य च ऋकार:-कृपा । भातेरङ्भा। श्रत्पूर्वादन्तःपूर्वाच्च दधातेरङ्-श्रद्धा, अन्तर्धा ॥१०॥ न्या० स०-मृगयेच्छा तृष्णेति-केचित्तु भिदादित्वात् तृषा, स्वमते तु क्रुत्संपदादित्वात् तृट् । परेः सृ-चरेयः ॥ ५. ३. १०२ ॥ परिपूर्वाभ्यां सूचरिभ्यां परः स्त्रियां य: प्रत्ययो भवति, भावाऽकोंः । भाव इत्यन्ये । परिसर्या, परिचर्या । परेरिति किम् ? संसृतिः, चूतिः ॥१०२॥ वाटाट्यात् ॥ ५. ३. १०३ ॥ अटतेयंडन्तात् स्त्रियां यः प्रत्ययो वा भवति, भावाऽकों: । भाव इत्यन्ये । अटाटया, पक्षे-अः प्रत्ययः-प्रटाटा । अन्ये तु क्तिप्रत्ययबाधनार्थमटतेरयङन्तस्य यप्रत्ययं द्विवचनं पूर्वदीर्घत्वं च निपात्यन्ति-अटनमटाटया ॥१०३।। जागुरश्च ॥ ५. ३. १०४॥ जागर्तेः स्त्रियामः प्रत्ययो यश्च भवति । भावाऽकोंः। भाव इत्यन्ये । जागरा, जागर्या ॥१०४॥
SR No.034256
Book TitleSiddh Hemhandranushasanam Part 02
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages520
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy