________________
२८८ ]
बृहद्वत्ति-लघुन्याससंवलिते
[पाद-३, सूत्र-६९-७५
वेरशन्दे प्रथने ॥५, ३, ६१ ॥ प्रथनं विस्तीर्णता, वेः परात् स्तृणातेरशब्दविषये प्रथनेऽभिधेये घञ् भवति ।
विस्तारः पटस्य । प्रथन इति किम् ? तृणस्य विस्तरः, छावनमित्यर्थः । अशब्द इति किम् ? अहो द्वादशाङ्गस्य विस्तरः ।।६६ ।
छन्दोनाम्नि ॥ ५. ३.७० ।।
छन्दः-पद्यो वर्णविन्यासः. विपूर्वाद स्तृणातेश्छन्दोनाम्नि विषये घञ् भवति । विष्टारपङ्क्तिः । केचित् तु वेरन्यतोऽपीच्छन्ति-आस्तारपङ्क्तिः, प्रस्तारपङ्क्तिः, छन्दोनाम ॥७०॥
न्या० स०-छन्दोनाम्नि-विष्टारपङ्क्तिरिति-पङ क्त्यन्तं छन्दोनामेति वाक्या. वस्थायां घत्र न तेन विस्तरश्चासौ पङक्तिश्चेति कर्मधारयः, षष्ठीपञ्चमीतत्पुरुषो वा।
तु-श्रोः॥५, ३. ७१ ॥
क्षोतेः शृणोतेश्च विपूर्वाद् भावाऽकोंर्घन भवति । विक्षावः, विधावः । वेरित्येव ? क्षवः, श्रवः ॥७१॥
न्युदो ग्रः॥ ५.३.७२॥
न्युभ्यां पराद् गिरतेगणातेर्वा भावाकोंघ भवति । निगारः, उद्गारः । न्युव इति किम् ? गरः, संगरः ॥७२॥
न्या० स०-न्युदो ग्रः-संगर इति-संगीर्यतेऽभ्युपगम्यते योद्धृभियुद्धं संगरणं वा तदा प्रतिज्ञा ।
किरो धान्ये ॥ ५. ३, ७३ ॥
न्युत्पूर्वाद किरतेर्धान्यविषये धात्वर्थे वर्तमानाद् भावाऽकोंर्घन भवति । निकारो धान्यस्य, उत्कारो धान्यस्य, राशिरित्यर्थः । धान्य इति किम् ? फलनिकरः, पुष्पोत्करः।७३
न्या० स०-किरोधा-निकारस्तिरस्कार इति तु करोतेर्घन । नेषुः ॥ ५.३.७४ ॥ निपूर्वात वृणोतेषूणातेर्वा धान्यविशेषेऽभिधेये भावाऽकोंर्घन भवति ।
निवियन्त इति-नीवारा नाम व्रीहिविशेषाः, "घञ्युपसर्गस्य बहुलम्" (३-२.८६) इति दीर्घत्वम् । धान्य इत्येव ? निवरा कन्या, स्वभावादलन्तोऽप्ययं स्त्रियां वर्तते, क्तिस्तु बहुलाधिकारान्न भवति ।। ७४ ॥
इणोऽभ्रषे॥ ५. ३. ७५. ॥